Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहद्वात्तः।
ततो हास्य-रत्य-रति-शोक-भय-जुगुप्सालक्षणं हास्यादिषटू युगपदन्तर्मुहूर्तेन, ततः पुरुषवेदमन्तर्मुहूर्तेन । अथ स्त्री प्रारम्भिका, ततः विशेषा प्रथमं नपुंसकवेदम् , ततः पुरुषवेदम् , ततो हास्यादिषद, ततः स्त्रीवेदमुपशमयति, इत्येवं द्रष्टव्यम् । अथ नपुंसकः प्रारम्भकः, ततो-
ऽसावनुदीर्णमपि प्रथमं स्त्रीवेदमुपशमयति, ततः पुरुषवेदम् , ततः षटम् , ततो नपुंसकवेदम् , इत्येष क्रमः । अत ऊर्च द्वौ द्वौ क्रोधाद्या॥५६२॥
वेकान्तरितौ संज्वलनक्रोधादिव्यवहितो, सदृशौ क्रोधादित्वेन परस्परं तुल्यौ सदृशं युगपदेव प्रत्येकमन्तर्मुहूर्तेनोपशमयति । एतदुक्तं भवति- अप्रत्याख्यान-प्रत्याख्यानावरणौ क्रोधौ क्रोधरूपतया सदृशौ सदृशं युगपदन्तर्मुहूर्तेनोपशमयति, ततः संज्वलनं क्रोधमेकाकिनमेकान्तर्मुहूर्तेनोपशमयति । ततोऽप्रत्याख्यान-प्रत्याख्यानावरणौ मानौ मानरूपतया सदृशौ सदृशं युगपदेव, ततः संज्वलनं मानम् , ततोऽप्रत्याख्यान-प्रत्याख्यानावरणमायाद्वयं मायारूपतया सदृशम् , ततः संज्वलनां मायाम् । ततोऽप्रत्याख्यान-प्रत्याख्यानावरणलोभद्वयं लोभरूपतया सदृशं युगपदुपशमयति, ततः संज्वलनं लोभम् । अमुं चोपशमयंत्रिधा करोति-द्वौ भागौ युगपदुपशमयति; तृतीयं तु भार्ग संख्येयानि खण्डानि करोति, तान्यपि पृथक् पृथक् कालभेदेनोपशमयति । तत एतेषां संख्येयखण्डानां यच्चरमं खर्ड तदसंख्येयानि
खण्डानि करोति । ततः समये समय एकैकं खण्डमुपशमयति । इह च दर्शनसप्तक उपशान्तेपूर्वकरणः, निवृत्तिबादरो वाभिधीयते । Ko तत ऊर्ध्वमनिवृत्तिवादरो यावत्संख्येयखण्डानां चरमखण्डम् । चरमसंख्येयखण्डनिष्पन्नानि त्वसंख्येयखण्डान्युपशमयन् सूक्ष्मसंपरायः। । तदेवमन्तर्मुहूर्तेन संज्वलनं लोभमपि सर्वमुपशमयति । एवं सर्वत्र प्रत्येकमन्तर्मुहूर्तमुपशमकालः । सर्वापि चेयं श्रेणिमहताऽन्तर्मुहूर्तेन | समयते।
- अस्याश्च श्रेणेरनन्तानुबन्धिचतुष्टयादीनां प्रत्येकं शून्यस्थापनया स्वरूपं भावनीयम् । तत्रानन्तानुबन्धिचतुष्टयस्थापने चत्वारि शून्यानि तिर्यग् व्यवस्थाप्यन्ते, तद्यथा-००००। एषामुपशमस्य प्रारम्भो निष्ठा च समकालमेव, इति तिर्यक्समतया स्थाप्यन्ते । एवमुत्तरत्रापि तिर्यक्समस्थापनायां भावार्थोऽबसेयः। एतदुपरि तिर्यक्समशून्यत्रयेण दर्शनत्रयं स्थाप्यते- ०००। एतदुपर्येकस्य वेदकस्यैकं शून्यम् , तदुपरि द्वितीयस्य द्वितीयम्-:। तदुपरि हास्यादिषटुं समश्रेण्या तिर्यक् स्थाप्यते- ० ० ० ० ० ० । एतदुपरि तृतीयवेदशून्यम् , तदुपर्यपि तिर्यक्क्रोधशून्यद्वयम्-० ० । एतदुपरि संज्वलनक्रोधस्य शून्यम्- । एतदुपरि तिर्यग्मानद्वयस्य शून्यद्वयम्-००। तदुपरि मानस्यैकं शून्यम्- ' । तदुपरि मायाद्वयस्य तिर्यक् शून्यद्वयम्- ० .। तदुपरि मायायाः शून्यम्- ० । तदुपरि लोभद्वयस्य तिर्यगेव शून्यद्वयम्- ० ० । एतदुपरि संज्वलनस्य लोभस्यैकं शून्यम्- ० । एवमूर्ध्वं स्थापना विधाय सर्व भावनीयम् ।। इति नियुक्तिगाथासंक्षेपार्थः ॥ १२८४ ।।
५६२।।
M
JainEducational
For Personal and Private Use Only
www.jaineltrary.ory
Loading... Page Navigation 1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202