Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 163
________________ विशेषा ॥५६॥ अथवा, आय चारित्रत्रयं कषायाणां क्षयोपशमादुक्तम् , उपलक्षणत्वात् क्षयात् , उपशमाञ्चेति । मूक्ष्मसंपराय-यथाख्यातचारित्रद्वयं तु यस्मादुपशमेन, क्षयेण वा लभ्यत इत्युक्तम् , तेन तस्मात् कारणात् तावेवोपशम-क्षयौ क्रमेण भण्ये ते । यो हि श्रेणिद्वयंमुप- बृहद लप्स्यते स पूर्वमुपशमश्रेणिं करोति, पश्चात्तु क्षपकश्रेणिम् , इत्यमुं क्रममाश्रित्य युगपद् द्वयाभिधाने प्राप्तेऽपि प्रथममत्रोपशमश्रेणी, पश्चात्तु क्षपकश्रेणी वक्ष्यत इति भावः ॥ १२८२ ।। अथ तृतीयामपि पातनामाह सेढिगयस्स सुहुमं सेढीओ निग्गयस्सहक्खायं । सा उवसम-क्खयओ पढम तत्थोवसमसेढी ॥१२८३॥ 'वा' इत्यथवा, श्रेण्यन्त विनः सूक्ष्मसंपरायमुक्तम् , तद्विनिर्गतस्य तु यथाख्यातम् , अतः श्रेणिद्वयं भणनीयमायातम् , उभयश्रेणिलाभे चोपशमश्रेणिमेवादौ कुरुते, इति सैव तावत् प्रथममुच्यते ।। इति द्वाविंशतिगाथार्थः ।। १२८३ ॥ तामेव विहितप्रस्तावनामुपश्रेणिमाह अण-दंस-नपुंस-त्थीवेय-च्छक्कं च पुरिसवेयं च । दो दो एगंतरिए सरिसे सरिसं उवसमेइ ॥१२८४॥ इहोपशमश्रेणिप्रारम्भकोऽप्रमत्तसंयतो भवतीति केचित् । अविरत-देशविरत-प्रमत्ता-अमत्तसंयतानामन्यतर इत्यन्ये । श्रेणः समाप्तौ च निवृत्तोप्रमत्तगुणस्थाने प्रमत्तगुणस्थाने वावतिष्ठते, कालगतस्तु देवेष्वविरतो वा भवति । कार्मग्रन्थिकाभिप्रायेण तु प्रतिपतितोऽसौ मिथ्यादृष्टिगुणस्थानकमपि यावद् गच्छति । तत्थमेतामारभते- 'अण त्ति' । 'अण-रण-' इत्यादिदण्डकधातुः । अणन्तीवाऽविकलहेतुत्वेनाऽसातवेद्यम् , नारकाद्यायुष्कं च शब्दयन्त्याकारयन्तीत्यणा आद्याः क्रोधादयश्चत्वारः कषायाः। अथवा, अण त्ति' प्राकृतत्वेन अनाः, एकदेशेन समुदायस्य गम्यमानत्वादनन्तानुबन्धिनस्त एवाऽऽद्याः क्रोधादयश्चत्वारः कपाया इत्यर्थः। तत्राऽसौ प्रतिपत्ता प्रशस्तेष्वध्यवसायस्थानेषु वर्तमानः प्रथमं युगपदन्तर्मुहूर्तमात्रेण कालेनाऽनन्तानुबन्धिनः क्रोधादीनुपशमयति । 'दंस त्ति दर्शनं दर्शः, तच्च दर्शनं मिथ्यात्व-मिश्र-सम्यक्त्वभेदात् त्रिविधम् । ततोऽनन्तानुवन्ध्युपशमानन्तरमेतदपि युगपदन्तर्मुहूर्तेनोपशमयति । ततो यदा पुरुषः श्रेणिसमारम्भको भवति, तदानुदीर्णमपि 'नपुंस त्ति' नपुंसकवेदमन्तर्मुहूर्तेनोपशमयति, ततः स्त्रीवेदमन्तर्मुहूर्तेन, १ क.ग. 'यमपि ल' । २ श्रेणिगतस्य सूक्ष्म श्रेणीतो निर्गतस्थाऽयाख्यातम् । सोपशम-क्षयतः प्रथमं तत्रोपशमश्रेणिः ॥ १२८३ ॥ RO ||५६१॥ ३ अन-दर्श-नपुंसक-श्रीवेद-पदकानि च पुरुषवेदं च । द्वौ द्वावेकान्तरिती सरशी सदृशमुपशमयति ।। १२८५ ॥ Jan Education intem For Personal and Private Use Only www.jaineitrary.ary

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202