Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 161
________________ विशेषा. ॥५५९॥ एवमुक्तप्रकारेण परिहारिकाणाम् , अनुपरिहारिकाणाम् , कल्पस्थितस्यापि च भक्तं भोजनमाचाम्लेन भवतीति शेषः, षट् षड् । मासान् यथोक्तरूपं तपश्च यथायोग वक्तव्यम् । तत्र परिहारिकास्तावद् ग्रीष्मादिषु पारणके आचाम्लपरिगृहीतचतुर्थादिक्रमेण षड्। मासान् यावत् तपः कुर्वन्ति । ततश्चानुपहारिकाः परिहारिकत्वं प्रतिपद्येत्थमेव षड् मासान् यावत् तपः कुर्वन्ति । परिहारिकाश्च विहिततपसस्तेषामनुपरिहारिकत्वमनुचरत्वं प्रतिपद्यन्ते । ततश्च कल्पस्थित एक एव परिहारिकत्वं प्रतिपद्येत्थमेव पट् मासान् यावत् तपः करोति, एकस्त्वितरेषां मध्यात् कल्पस्थितो वाचनाचार्यो भवति, शेषास्तु सप्ताऽनुचरा भवन्ति । एवमयं परिहारविशुद्धिककल्पोऽष्टादशभिर्मासैः समर्थ्यते ॥ १२७५ ॥ । कल्पसमाप्तौ ते किं कुर्वन्ति ?, इत्याह कैप्पसमत्तीए तयं जिणकप्पं वाउविति गच्छं वा । ठियकप्पे नियमा दो पुरिसजुगाइं ते होंति ॥१२७६।। कल्पसमाप्तौ चैषां त्रयी गतिः, तद्यथा- कदाचित् पुनरपि 'तयं ति' तमेव परिहारविशुद्धिककल्प प्रतिपद्यन्ते, जिनकल्पं वाऽभ्युपगच्छन्ति, गच्छं वा पुनरप्युपयान्ति प्रविशन्ति । ते च परिहारविशुद्धिका नियमेन स्थितिकल्पे भरतै-रावतप्रथमा-ऽन्तिमजिनतीर्थे द्वे एव पुरुषयुगे यावद् भवन्ति, तीर्थकरसमीपे चामुं कल्पं प्रतिपद्यन्ते- तीर्थकरसमीपे प्रतिपन्नः, अन्यसमीपे वा, नान्यत्रेत्यर्थः । तदेवमभिहितं परिहारविशुद्धिकचारित्रम् ॥ १२७६ ॥ अथ सूक्ष्मसंपरायचारित्रमाहकोवाइ संपराओ तेण जओ संपरीइ संसारं । तं सुहमसंपरायं सुहमो जत्थावसेसो सो ॥ १२७७ ॥ सेढिं विलग्गओ तं विसुज्झमाणं तओ चयंतस्स । तह संकिलिस्समाणं परिणामवसेण विन्नेयं ॥१२७८॥ क्रोधादिः कपायवर्गः संपराय उच्यते । कुतः १, इत्याह- यतः संपरैति पर्यटति संसारमनेनेति संपरायः सूक्ष्मोऽवशेषो यत्र तत् सूक्ष्म संपरायम् । तच्च श्रेणिं विलगत आरोहतो विशुध्यमानकं भवति । तथा, तस्याः प्रच्यवमानस्य संक्लिश्यमानकं परिणामवशेन तद् विज्ञेयमिति ।। १२७७ ॥ १२७८ ॥ १ कल्पसमाप्तौ तजिनकल्पं वोपयन्ति गच्छं वा । स्थितकल्पे नियमाद् दे पुरुषयुगे ते भवन्ति ॥ १२७६ ॥ FO॥५५९॥ २ कोपादिः संपरायस्तेन यतः संपर्येति संसारम् । तत् सूक्ष्मसंपरायं सूक्ष्मो यत्रावशेषः सः ॥ १२७७ ॥ प्रणिं विलगतस्तद् विशुध्यमानं ततश्च्यवमानस्य । तथा संक्लिश्यमानं परिणामवशेन विज्ञेयम् ॥ १२७८ ॥ For Personal and Private Use Only

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202