Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
त्येसु त्ति' आङ् इह मर्यादायाम् , ईषदर्थे वा आ- सर्वविरतिप्रत्याख्यानमर्यादया प्रत्याख्यानमावृण्वन्ति, अथवा आ- ईपत् सावद्यविशेषा योगानुमतिमात्रविरतिरूपं प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणा इत्यर्थः । देशविरतो ह्यनन्तं सावद्ययोगं प्रत्याख्याय यदेकादशी
प्रतिमा प्रतिपन्नः सावद्ययोगस्य परिमितमनुमतिमात्रं न प्रत्याचष्टे, तदेतत्कषायावरणसामर्थ्यात् , इत्यनया विवक्षयेषत्प्रत्याख्या॥५४६॥ | नावरणा एतेऽभिधीयन्त इति ।। १२३५ ॥
आह-ननु प्रत्याख्यानस्यावरणं सतः, असतो वा ?, इत्याशङ्कय पाह
नासंतस्सावरणं न सतोऽभव्वाइविरमणपसंगा । पच्चक्खाणावरणा तम्हा तस्संभवावरणा ॥ १२३६ ॥
एकान्तेनाऽसतस्तावदावरणं न संभवति, खरविषाणस्यापि तत्पसङ्गात् । नापि सतः, अभव्यानामपि प्रत्याख्यानसत्त्वेन विरतिमत्त्वप्रसङ्गात् । तर्हि किमेते कपाया आवृण्वन्ति ?, इत्याह- तस्मात् तत्संभवस्य प्रत्याख्यानसंभवस्य प्रत्याख्यानपरिणतेरावरणा: प्रत्याख्यानावरणा उच्यन्ते, परिणतिशब्दलोपादिति ॥ १२३६ ॥
एतदेव व्यक्तीकुर्वन् सदृष्टान्तमाह
उदए विरइपरिणई न होइ जेसिं खयाइओ होइ । पच्चक्खाणावरणा त इह जहा केवलावरणं ॥१२३७॥
येषामुदये विरतिपरिणतिरात्मनो न भवति, यत्क्षय-क्षयोपशमादिभ्यस्त्वसौ भवति, त इह प्रत्याख्यानावरणा उच्यन्ते, केवल| ज्ञानावरणवदिति । इदमुक्तं भवति- केवलावरणेन केवलज्ञानं न सदाऽऽत्रियते, अभव्यानामपि केवलित्वप्रसङ्गात् । अस्त्यभव्यानां केवलम् , | किन्त्वातमिति चेत् । तदयुक्तम् , मल्लकसंपुटातप्रदीपेन तन्मध्यस्येव स्वात्मनस्तेन प्रकाशनप्रसङ्गात् । नाऽप्यसत् केवलज्ञानं केवलज्ञानेनाऽऽवियते, खरविषाणस्याऽप्यावरणप्रसङ्गात् । तस्मात् सदसद्रूपं केवलज्ञानं तदावरणेनाऽऽत्रियते । तद्धि जीवद्रव्यरूपतया सदाऽऽत्रियते, आविर्भूततत्परिणत्या त्वसदाऽऽत्रियते, सदसद्रूपयोश्च कथश्चिदेकत्वमेव । ततः सदसद्रूपस्य केवलज्ञानस्य यथा स्वरूपेण परिणतिसंभवस्तदावरणेनाऽऽवियते- आवरणसामर्थ्यात् केवलज्ञानपरिणत्या परिणन्तुं जीवो न लभत इत्यर्थः; एवं प्रत्याख्यानावरणकषायैरपि विरतिपरिणतिसंभव आत्रियते-विरतिपरिणामेन परिणन्तुं जीवो न प्रामोतीत्यर्थः । अत्र बहु वक्तव्यम् , तत्तु
नोच्यते, अन्धविस्तरभयात् ।। इति गाथात्रयार्थः ॥ १२३७ ॥ KARNक.ग, 'त्ररू। २ क.ग. 'शधाह' । नाऽसत आवरणं न सतोऽभव्यादिविरमणप्रसङ्गात् । प्रत्याख्यानावरणास्तस्मात् तत्संभवावरणाः ।। १२३६ ॥
१ उदये विरतिपरिणतिनं भवति येषां क्षयादितो भवति । प्रत्याख्यानावरणास्त इह यथा केवलावरणम् ॥ १२३७ ॥
F
11५४६॥
Jan Education Internation
For Personal and Private Use Only
aww.jaineltrary.org
Loading... Page Navigation 1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202