Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 153
________________ विशेषा० ॥५५१॥ लोपाच्छेदान्ताः, सर्वेऽप्यतिचाराः संज्वलनकपायोदयजन्या भवन्ति । शेषकषायाणां द्वादशानामुदये मूलच्छेद्यं समस्तचारित्रोच्छेद-31 कारकं दोपजातं भवति । तद्विशुद्धये च प्रायश्चित्तं पुनर्वतारोपणमिति ॥ १२५० ॥ बृहद्वत्तिः । अथवा, यथासंभवं मूलच्छेद्यं योज्यते, इत्येतदाह अहवा संजममूलच्छेज्जं तइयकलुसोदए निययं । सम्मत्ताईमूलच्छेज्जं पुण बारसहं पि ॥ १२५१ ॥ तृतीयानां प्रत्याख्यानावरणकषायाणामुदये संयमस्य सर्वविरतिरूपस्य मूलच्छेद्यं नियतं निश्चितं भवति, सम्यक्त्वादिमूलच्छेयं तु द्वादशानामप्युदये संपद्यत इति ॥ १२५१ ॥ अथ प्रेयमाशङ्कय परिहरनाहमूलच्छेजे सिद्धे पुव्वद्धे मूलगुणघाइगहणेणं । इय कीस पुणो गहणं अइयारविसेसणत्थं ति ॥१२५२॥ पगयमहक्खायं ति य अइयारे तम्मि चेव मा जोए । तो मूलच्छेज्जमिणं सेसचरित्ते निओएइ ॥१२५३॥ आह- नन्वनन्तरनिर्दिष्टनियुक्तिगाथायां 'मूलगुणाणं लभं न लहइ मूलगुणघाइणो उदए' इत्येतस्मिन् पूर्वार्धे मूलगुणघातिग्रहणेन द्वादशकपायाणामुदये मूलच्छेद्यं सिद्धमेव, किमितीह पुनस्तद्ग्रहणम् । अत्रोत्तरमाह- अतिचारविशेषणार्थमिति- अतिचाराणां विशेषे व्यवस्थापनार्थमित्यर्थः । इदमेव व्यक्तीकुर्वन्नाह- 'पगयमित्यादि । इदमुक्तं भवति- "संजलणाणं उदए न लहइ चरणं अहक्खाय' इत्यनन्तरनियुक्तिगाथोत्तरार्धादिह यथाख्यातचारित्रं प्रकृतमनुवर्तते । ततश्च 'सव्वे चिय अइयारा संजलणाणं तु उदयओ होति' इत्येतानतिचाराननन्तरानुवर्तमाने यथाख्यातचारित्र एव शिष्योऽयोक्षीत् , तदेतद् मा भूत् । ततस्तेनेह पुनरपि मूलच्छेद्यमेतद् यथाख्यातवर्जितेऽशेषचारित्रे सामायिकादिके नियोजयति । अस्यां हि गाथायां मूलच्छेद्यग्रहणात् पुनःशब्दविशेषणाच्चायमर्थः संपद्यते । संज्वलनानामुदये शेषचारित्रस्य सर्वेऽप्यतिचारा भवन्ति, द्वादशकषायाणामुदये पुनर्मूलच्छेद्यं भवति । यस्यैवास्यां गाथायां मूलच्छेद्यमुक्तम् , तस्यैवातिचारा अपि, न तु यथाख्यातचारित्रस्य, कषायोदयरहितत्वेन तस्य निरतिचारत्वात् ।। इति गाथाचतुष्टयार्थः ॥ १२५२ ॥ १२५३ ॥ १ अथवा संयममूलच्छेद्य तृतीयकलुषोदये नियतम् । सम्यक्त्वादिमूलच्छेचं पुनद्वादशानामपि ॥ १२५१ ॥ ॥५५१॥ २ मूलच्छेचे सिद्ध पूर्वार्धे मूलगुणपातिग्रहणेन । इति कस्मात् पुनर्ग्रहणमतिचारविशेषणार्थमिति ॥ १२५२॥ प्रकृतमथाख्यातमिति चातिचारे तस्मिन्नेव मा यौक्षीत् । ततो मूलच्छेद्यमिदं शेषचारित्रे नियोजयति ॥१२५३॥ ३ गाथा १२३८ । ४ गाथा १२४९ । For Pesond er m.janelbrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202