Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
वृहदत्तिः ।
॥५४९॥
SODEDICIDIOload
यदि तद् निशिभोजनविरमणं मूलगुणोपकारित्वाद् मूलगुण इष्यते, ततस्तर्हि तपःप्रभृतयः सर्वेऽपि मूलगुणाः प्राप्नुवन्ति, तेषामपि तदुपकारित्वात् । अतो विशीर्णोत्तरगुणकथा । यदि पुनस्ते तपःप्रभृतयो मूलगुणा न भवन्ति, तर्हि तदपि रात्रीभोजनविरमणं मूलगुणो मा भूत , उपकारित्वाविशेषात् । पूर्वापरविरोधश्चैवमनभ्युपगच्छतो भवतः, तथाहि- भवतैवानन्तरमुक्तं यथा'महाव्रतसंरक्षणादुत्तरगुण इदं, समितिवत्' इति । इदानीं त्वभिधत्से-'महाव्रतसंरक्षणाद् मूलगुण एतदिति । अत्रोच्यते-किमिह विरुद्धम् ?, उभयधर्मकं हि रात्रीभोजनविरमणम् , यतो गृहस्थस्य तदुत्तरगुणः, तस्याऽऽरम्भजप्राणातिपातादनिवृत्तत्वात् , निशि भोजनेऽपि मूलगुणानामखण्डनात् , अत्यन्तोपकाराभावादितिः तिनस्तु तदेव मूलगुणः, तस्याऽऽरम्भजादपि प्राणातिपाताद् निवृत्तत्वात् , रजनिभोजने च तत्संभवात् , अतस्तद्विधाने मूलगुणानां खण्डनात् , तद्विरमणे तु तेषां संरक्षणेनात्यन्तोपकारात् तत् तस्य मूलगुणः । तपाप्रभृतीनां चेत्थमत्यन्तोपकारित्वाभावादुत्तरगुणत्वमिति ।। १२४४ ।।
आह च
सव्वव्वओवगारिं जह तं न तहा तवादओ वीसु। जंते, तेणुत्तरिया होति गुणा तं च मूलगुणो ॥१२४५॥
'ज ति' यस्मात् कारणाद् यथा तद् रात्रीभोजनविरमणं सर्वव्रतोपकारकम् , न तथा तपः-समित्यादयो विष्वक् पृथक् , तेन कारणेन त उत्तरिका उत्तरगुणा भवन्ति । तत्तु रात्रीभोजनव्रतं मूलगुणानामत्यन्तोपकारित्वाद् मूलगुणः । यथा हि प्राणातिपातादिव्रतानां पञ्चानामेकस्याप्यभावे शेषाणामभावाद् मूलगुणत्वम् , एवं रात्रिभोजनव्रतस्याऽप्यभावे सर्वव्रताभावादत्यन्तोपकारित्वाद् मूलगुणत्वमिति भावः ॥ १२४५ ॥
अथ "संजलणाणं उदए' इत्यादिनियुक्तिगाथोत्तरार्धव्याख्यामाह
ईसिं सयराहं वा संपाए वा परीसहाईणं । जलणाओ संजलणा नाहक्खायं तदुदयम्मि ॥ १२४६ ॥
अकसायमहक्खायं जं संजलणोदए न तं तेण । लब्भइ लद्धं च पुणो भस्सइ सव्वं तदुदयम्मि ॥१२४७॥ घ.छ. 'अथवा म' । २ सर्ववतोपकारि यथा तद् न तथा तपादयो विष्वक् । यत् ते, तेनौत्तराहा भवन्ति गुणास्तच मूलगुणः ॥ १२४५ ॥ ३ गाथा १२३८ ।
४ ईषद् झगिति वा संपाते वा परीषहादीनाम् । ज्वलनात् संज्वलना नाऽधाख्यातं तदुदये ॥ १२४६ ॥ अकषायमधाख्यातं यत् संज्वलनोदये न तत् तेन । लभ्यते लब्धं च पुनश्यति सर्व तदुदये ॥ १२४७ ॥
॥५४९॥
Jan Education interna
For Personal and Private Use Only
www.jaineitrary.ary
Loading... Page Navigation 1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202