Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 150
________________ विशेषा. HI૪૮ ननु रात्रीभोजनविरमणमपि मूलगुणः, तदिह किमिति मूलगुणत्वेन नोपात्तम् । अत्रोत्तरमाह-व्रतधारिणः संयतस्यैव तद् । रात्रीभोजनविरमणं मूलगुणः, शेषस्य तु गृहिणो देशविरतस्योत्तरगुण इत्यर्थः । कुतः ?, आहारविरमणरूपत्वात् , तपोवत् । अथवा, तप बृहद्वृत्तिः । एव वा तद् निशिभोजनविरमणमिति प्रतिज्ञा, यतोऽनशनम्- अशनत्यागरूपत्वादिति हेतुः, चतुर्थादिवत् , इत्यनुक्तोऽपि दृष्टान्तः स्वयं दृश्यः, तपश्चोत्तरगुण एवेति भावः । इतश्चेदमुत्तरगुणः । कुतः, महाव्रतसंरक्षणात्मकत्वात् , समित्यादिवदिति ॥१२४०॥१२४१॥ अत्राह- यद्येवम् , उक्तयुक्तेव्रतधारिणोऽपि तद् मूलगुणो न प्राप्नोति, इत्याह तह वि तयं मूलगुणो भण्णइ मूलगुणपालयं जम्हा । मूलगुणगणम्मि य तं गहियं उत्तरगुण व्व ॥१२४२॥ तथापि वतिनस्तन्मूलगुणो भण्यते, समस्तव्रतानुपालनात् , समस्तव्रतसंरक्षणेनाऽत्यन्तोपकारित्वात् , प्राणातिपातविरमणवत् , मूलगुणग्रहणाच्च साक्षादनुपात्तमपि तद् गृहीतमेव द्रष्टव्यम् , उत्तरगुणवदिति ॥ १२४२ ॥ कस्माद् मूलग्रहणे तद् गृह्यते ?, इत्याह जेम्हा मूलगुण च्चिय न होति तविरहियस्स पडिपुन्ना। तो मूलगुणग्गहणे तग्गहणमिहत्थओ नेयं ॥१२४३॥ यस्मात् तद्विरहितस्य रात्रीभोजनविरमणविरहितस्य महाव्रतादयो मूलगुणा एव परिपूर्णा न भवन्ति, अतो मूलगुणग्रहणे तद्ग्रहणमिहार्थतो विज्ञेयम् । तथाहि- रात्री भोजने विधेये रात्रौ भिक्षार्थमचक्षुर्विषये पर्यटनाद् वह्निप्रदीपनादिभिः स्पर्शनात , पुरःकमेंपश्चात्कर्माद्यनेषणादोषदुष्टाहारग्रहणादेश्च प्राणातिपातव्रतविघातः । अन्धकारवलेन च पतितहिरण्यादिविणग्रहणादेः, योषित्परिभोगसंभवाच शेषव्रतविलोपः । इत्येवं रात्रिभोजनविरमणमन्तरेण न संभवन्त्येव प्राणातिपातविरत्यादिमूलगुणाः । अत एव तद्हणेऽत्यन्तोपकारित्वाद् गृहीतमेवार्थतस्तदिति ॥ १२४३ ।। अत्र प्रेरकः प्राहजैइ मूलगुणो मूलव्वयउवगारित्ति तं तवाईया । तो सब्वे मूलगुणा जइव न तो, तंपिमा होज्जा ॥१२४४॥ । तथापि तद् मूलगुणो भण्यते मूलगुणपालकं यस्मात् । मूलगुणग्रहणे च तद् गृहीतमुत्सरगुण इव ॥ १२४२ ॥ ॥५४८॥ २ यस्माद् मूलगुणा एवं न भवन्ति तद्विरहितस्य परिपूर्णाः । ततो मूलगुणग्रहणे तद्ग्रहणमिहायतो शेयम् ॥ १२५३॥ ३ यदि मूलगुणो मूलवतोपकारीति तत् तपादिकाः । ततः सर्वे मूलगुणा यदिवा न ते, तदपि मा भूत् ।। १२४४॥ Jan Education Internati For Personal and Private Use Only www.jaineltrary.ary

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202