________________
विशेषा. HI૪૮
ननु रात्रीभोजनविरमणमपि मूलगुणः, तदिह किमिति मूलगुणत्वेन नोपात्तम् । अत्रोत्तरमाह-व्रतधारिणः संयतस्यैव तद् । रात्रीभोजनविरमणं मूलगुणः, शेषस्य तु गृहिणो देशविरतस्योत्तरगुण इत्यर्थः । कुतः ?, आहारविरमणरूपत्वात् , तपोवत् । अथवा, तप बृहद्वृत्तिः । एव वा तद् निशिभोजनविरमणमिति प्रतिज्ञा, यतोऽनशनम्- अशनत्यागरूपत्वादिति हेतुः, चतुर्थादिवत् , इत्यनुक्तोऽपि दृष्टान्तः स्वयं दृश्यः, तपश्चोत्तरगुण एवेति भावः । इतश्चेदमुत्तरगुणः । कुतः, महाव्रतसंरक्षणात्मकत्वात् , समित्यादिवदिति ॥१२४०॥१२४१॥
अत्राह- यद्येवम् , उक्तयुक्तेव्रतधारिणोऽपि तद् मूलगुणो न प्राप्नोति, इत्याह
तह वि तयं मूलगुणो भण्णइ मूलगुणपालयं जम्हा । मूलगुणगणम्मि य तं गहियं उत्तरगुण व्व ॥१२४२॥
तथापि वतिनस्तन्मूलगुणो भण्यते, समस्तव्रतानुपालनात् , समस्तव्रतसंरक्षणेनाऽत्यन्तोपकारित्वात् , प्राणातिपातविरमणवत् , मूलगुणग्रहणाच्च साक्षादनुपात्तमपि तद् गृहीतमेव द्रष्टव्यम् , उत्तरगुणवदिति ॥ १२४२ ॥ कस्माद् मूलग्रहणे तद् गृह्यते ?, इत्याह
जेम्हा मूलगुण च्चिय न होति तविरहियस्स पडिपुन्ना। तो मूलगुणग्गहणे तग्गहणमिहत्थओ नेयं ॥१२४३॥ यस्मात् तद्विरहितस्य रात्रीभोजनविरमणविरहितस्य महाव्रतादयो मूलगुणा एव परिपूर्णा न भवन्ति, अतो मूलगुणग्रहणे तद्ग्रहणमिहार्थतो विज्ञेयम् । तथाहि- रात्री भोजने विधेये रात्रौ भिक्षार्थमचक्षुर्विषये पर्यटनाद् वह्निप्रदीपनादिभिः स्पर्शनात , पुरःकमेंपश्चात्कर्माद्यनेषणादोषदुष्टाहारग्रहणादेश्च प्राणातिपातव्रतविघातः । अन्धकारवलेन च पतितहिरण्यादिविणग्रहणादेः, योषित्परिभोगसंभवाच शेषव्रतविलोपः । इत्येवं रात्रिभोजनविरमणमन्तरेण न संभवन्त्येव प्राणातिपातविरत्यादिमूलगुणाः । अत एव तद्हणेऽत्यन्तोपकारित्वाद् गृहीतमेवार्थतस्तदिति ॥ १२४३ ।।
अत्र प्रेरकः प्राहजैइ मूलगुणो मूलव्वयउवगारित्ति तं तवाईया । तो सब्वे मूलगुणा जइव न तो, तंपिमा होज्जा ॥१२४४॥ । तथापि तद् मूलगुणो भण्यते मूलगुणपालकं यस्मात् । मूलगुणग्रहणे च तद् गृहीतमुत्सरगुण इव ॥ १२४२ ॥
॥५४८॥ २ यस्माद् मूलगुणा एवं न भवन्ति तद्विरहितस्य परिपूर्णाः । ततो मूलगुणग्रहणे तद्ग्रहणमिहायतो शेयम् ॥ १२५३॥ ३ यदि मूलगुणो मूलवतोपकारीति तत् तपादिकाः । ततः सर्वे मूलगुणा यदिवा न ते, तदपि मा भूत् ।। १२४४॥
Jan Education Internati
For Personal and Private Use Only
www.jaineltrary.ary