SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ विशेषा वृहदत्तिः । ॥५४९॥ SODEDICIDIOload यदि तद् निशिभोजनविरमणं मूलगुणोपकारित्वाद् मूलगुण इष्यते, ततस्तर्हि तपःप्रभृतयः सर्वेऽपि मूलगुणाः प्राप्नुवन्ति, तेषामपि तदुपकारित्वात् । अतो विशीर्णोत्तरगुणकथा । यदि पुनस्ते तपःप्रभृतयो मूलगुणा न भवन्ति, तर्हि तदपि रात्रीभोजनविरमणं मूलगुणो मा भूत , उपकारित्वाविशेषात् । पूर्वापरविरोधश्चैवमनभ्युपगच्छतो भवतः, तथाहि- भवतैवानन्तरमुक्तं यथा'महाव्रतसंरक्षणादुत्तरगुण इदं, समितिवत्' इति । इदानीं त्वभिधत्से-'महाव्रतसंरक्षणाद् मूलगुण एतदिति । अत्रोच्यते-किमिह विरुद्धम् ?, उभयधर्मकं हि रात्रीभोजनविरमणम् , यतो गृहस्थस्य तदुत्तरगुणः, तस्याऽऽरम्भजप्राणातिपातादनिवृत्तत्वात् , निशि भोजनेऽपि मूलगुणानामखण्डनात् , अत्यन्तोपकाराभावादितिः तिनस्तु तदेव मूलगुणः, तस्याऽऽरम्भजादपि प्राणातिपाताद् निवृत्तत्वात् , रजनिभोजने च तत्संभवात् , अतस्तद्विधाने मूलगुणानां खण्डनात् , तद्विरमणे तु तेषां संरक्षणेनात्यन्तोपकारात् तत् तस्य मूलगुणः । तपाप्रभृतीनां चेत्थमत्यन्तोपकारित्वाभावादुत्तरगुणत्वमिति ।। १२४४ ।। आह च सव्वव्वओवगारिं जह तं न तहा तवादओ वीसु। जंते, तेणुत्तरिया होति गुणा तं च मूलगुणो ॥१२४५॥ 'ज ति' यस्मात् कारणाद् यथा तद् रात्रीभोजनविरमणं सर्वव्रतोपकारकम् , न तथा तपः-समित्यादयो विष्वक् पृथक् , तेन कारणेन त उत्तरिका उत्तरगुणा भवन्ति । तत्तु रात्रीभोजनव्रतं मूलगुणानामत्यन्तोपकारित्वाद् मूलगुणः । यथा हि प्राणातिपातादिव्रतानां पञ्चानामेकस्याप्यभावे शेषाणामभावाद् मूलगुणत्वम् , एवं रात्रिभोजनव्रतस्याऽप्यभावे सर्वव्रताभावादत्यन्तोपकारित्वाद् मूलगुणत्वमिति भावः ॥ १२४५ ॥ अथ "संजलणाणं उदए' इत्यादिनियुक्तिगाथोत्तरार्धव्याख्यामाह ईसिं सयराहं वा संपाए वा परीसहाईणं । जलणाओ संजलणा नाहक्खायं तदुदयम्मि ॥ १२४६ ॥ अकसायमहक्खायं जं संजलणोदए न तं तेण । लब्भइ लद्धं च पुणो भस्सइ सव्वं तदुदयम्मि ॥१२४७॥ घ.छ. 'अथवा म' । २ सर्ववतोपकारि यथा तद् न तथा तपादयो विष्वक् । यत् ते, तेनौत्तराहा भवन्ति गुणास्तच मूलगुणः ॥ १२४५ ॥ ३ गाथा १२३८ । ४ ईषद् झगिति वा संपाते वा परीषहादीनाम् । ज्वलनात् संज्वलना नाऽधाख्यातं तदुदये ॥ १२४६ ॥ अकषायमधाख्यातं यत् संज्वलनोदये न तत् तेन । लभ्यते लब्धं च पुनश्यति सर्व तदुदये ॥ १२४७ ॥ ॥५४९॥ Jan Education interna For Personal and Private Use Only www.jaineitrary.ary
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy