________________
विशेषा०
॥५४७॥
Jain Educationa Internationa
अथोक्तमेवार्थं संगृह्य विभणिषुः तथा चतुर्थकषायाणां यथाख्यातचारित्रादिविघातित्वं च दिदर्शयिषुराह—
मूलगुणाणं लंभं न लहई मूलगुणघाइणो उदए । संजलणाणं उदए न लहइ चरणं अहक्खायं ॥१२३८॥ इह सम्यक्त्वं, व्रताऽणुव्रतानि च मूलभूता गुणा मूलगुणाः, उत्तरगुणानामाधारभूतत्वात् तेषां मूलगुणानां लाभं न लभते । कदा ?, इत्याह-यथोक्तान् मूलगुणान् हन्तुं शीलं येषां ते मूलगुणघातिनस्तेषां मूलगुणघातिनामनन्तानुबन्ध्य-मत्याख्यान- प्रत्याख्यानावरणानां द्वादशानां कषायाणामुदये । एतच्च 'पैढमिल्लुआण उदए' इत्यादिना सर्व भावितमेव । तथा, ईषज्ज्वलनात् संज्वलनाः, सपदि ज्वलनाद् वा संज्वलनाः, परीषहादिसंपाते चारित्रिणमपि ज्वलयन्तीति वा संज्वलनाः क्रोधादय एव चत्वारः कषाया:, तेषामुदये न लभते, लब्धं वा त्यजति चरणं चारित्रम् । किं सर्वमपि १, न, इत्याह- यथैव तीर्थकर गणधरैराख्यातं यथाख्यातमकषायमित्यर्थः, सकषायं तु लभते । न च यथाख्यातचारित्रमात्रमेवोपघ्नन्ति संज्वलनाः, किन्तु शेषचारित्राणामपि देशोपघातिनो भवन्ति, तदुदये शेषचारित्रातिचार सिद्धेः । इति नियुक्तिगाथार्थः || १२३८ ॥
के पुनस्ते मूलगुणाः, यद्विघातिनो द्वादश कषायाः १, इत्याह
सम्मत्तसमेयाई महव्वया-णुव्वयाई मूलगुणा । मूलं सेसाहारो बारस तग्घाइणो एए ॥ १२३९ ॥ गतार्था, नवरं शेषाणामुत्तरगुणानामाधारत्वात् सम्यक्त्व- महाव्रतादीनि मूलमुच्यते, तद्विघातिन एते द्वादश कषाया इति ॥। १२३९ ॥ अत्रार्थापश्याऽऽक्षिप्तमनवगच्छन्नाह परः
"निसिभत्तविरमणं पि हुनणु मूलगुणो कहं न गहियं तं ? । वयधारिणो च्चिय तयं मूलगुणो सेसयस्सिय ॥१२४० ॥ आहारविरमणाओ तो व तव एव वा जओऽणसणं । अहव महव्वयसंरक्खत्तणाओ समिइउव्व ॥ १२४१ ॥
१ मूलगुणानां लाभं न लभते मूलगुणघातिन उदये । संज्वलनानामुदये न लभते चरणमथाख्यातम् ॥ १२३८ ॥ २ घ. छ. क्त्वं महाव्रतानि ।
३ गाथा १२२६ । ४ सम्यक्त्वसमेतानि महाव्रता ऽणुव्रतानि मूलगुणाः । मूलं शेषाधारो द्वादश तद्वातिन एते || १२३९ ॥
५ निशिभक्तविरमणमपि हि ननु मूलगुणः कथं न गृहीतं तत् ? । व्रतधारिण एव तद् मूलगुणः शेषस्येतरः ॥ १२४० ॥ आहारविरमणात् तप इव तप एव वा यतोऽनशनम् । अथवा महाव्रतसंरक्षत्वात् समितय इव ॥ १२४१ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥५४७॥
www.jainellibrary.org