Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा.
बृहद्वत्तिः ।
॥५५०॥
अबERPOSES
ने हु नवरिमहक्खाओवधाइणो सेसचरणदेसं पि । घाएंति, ताणमुदए होइ जओ साइयारं तं ॥१२४८॥
इह संशब्दस्य त्रयोऽर्थाः, तद्यथा- ईषज्ज्वलनात् संज्वलनाः, अथवा, 'सयराहं' झगिति ज्वलनात् संज्वलनाः, यदिवा, परीषहादिसंपाते चारित्रिणमपि ज्वलयन्तीति संज्वलनाः, तदुदये यथाख्यातचारित्रं न भवति । कुतस्तदुदये तद् न भवति ?, इत्याह'अकसायमित्यादि । 'जं ति' यस्मादकषायं यथाख्यातमुच्यते, तेन कारणेन संज्वलनकषायोदये तद् न लभ्यते, पूर्वलब्धमपि च पुनस्तदुदये सर्व तद् भ्रश्यतीति । न हि नैव यथाख्यातमात्रोपघातिनः संज्वलनाः, किन्तु शेषचारित्राणामपि देशोपघातिनो भवन्ति, यतस्तेषामुदये तदपि शेषचारित्रं सातिचारं भवति ।। इति गाथादशकार्थः ॥ १२४६ ॥ १२४७ ॥ १२४८ ॥
अत एवाहसव्वे चिय अइयारा संजलणाणं तु उदयओ होति । मूलछेजं पुण होइ बारसण्हं कसायाणं ॥१२४९॥
सर्वेऽप्यालोचना-प्रतिक्रमणोभयादिच्छेदपर्यन्तप्रायश्चित्तशोध्याः, अपिशब्दात् कियन्तोऽपि च, अतिचरणान्यतिचाराश्चारित्रविराधनाविशेषाः संज्वलनानामेवोदयतो भवन्ति । द्वादशानां पुनः कपायाणामुदयतो मूलच्छेद्यं भवति- मूलेनाऽष्टमस्थानवर्तिना प्रायश्चित्तेन च्छिद्यतेऽपनीयते यद् दोषजातं तद् मूलच्छेद्यम्- अशेषचारित्रोच्छेदकारीत्यर्थः । तदेवंभूतं दोषजातं द्वादशानामनन्तानुवन्ध्यऽप्रत्याख्यान-प्रत्याख्यानावरणलक्षणानां कषायाणामुदये संजायते । अथवा, इदं मूलच्छेद्यं दोषजातं यथासंभवतो योज्यते, तद्यथाप्रत्याख्यानावरणकषायचतुष्टयोदये सर्वविरतिरूपस्य चारित्रस्य मूलच्छेद्यं सर्वनाशरूपं भवति, अप्रत्याख्यानकषायचतुष्कोदये तु देशविरतिचारित्रस्य, अनन्तानुवन्धिकषायचतुष्कोदये पुनः सम्यक्त्वस्य ।। इति नियुक्तिगाथार्थः ॥ १२४९ ।।
भाष्यम्
अइयारा छेदंता सव्वे संजलणहेयवो होति । सेसकसायोदयओ मूलच्छेज्जं वयारुहणं ॥ १२५० ॥ सप्तमस्थानवी प्रायश्चित्तविशेषश्छेदः । ततश्चालोचनादिना छेदान्तेन सप्तविधप्रायश्चित्तेनान्तो येषां ते, एकस्याऽन्तशब्दस्य
नहि नवरमथाख्यातोपघातिनः शेपचरणदेशमपि । मन्ति, तेषामुदये भवति यतः सातिचारं तत् ॥ १२५८ ॥ २ सर्व एवातिचाराः संज्वलनानां तूदयतो भवन्ति । मूलच्छेधं पुनर्भवति द्वादशानां कषायाणाम् ॥ १२४९ ॥ ३ अतिचाराश्छेदान्ताः सर्वे संज्वलनहेतवो भवन्ति । शेषकपायोदयतो मूलच्छेद्यं व्रतारोहणम् ॥ १२५० ।।
POS
एमाशाशास्लमवापस
||५५०॥
Jan Education Internation
For Personal and Private Use Only
Laww.jaineltrary.org
Loading... Page Navigation 1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202