Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 157
________________ विशेषा बत्तिः। नस्य प्राप्यते । चः समुच्चये। ततश्च मूक्ष्मसंपरायानन्तरं सर्वत्र साधुनीवलोके ख्यातं प्रसिद्धं यथाख्यातं पञ्चमं सर्वविशुद्धं चारित्रं भवति । तत् कथम्भूतम् ?, इत्याह- यच्चरित्वाऽऽसेव्य, शोभनं विहितमनुष्ठानं येषां ते सुविहिताः सुसाधवो वजन्त्यजरा-मरं मोक्षलक्षणं स्थानम्। तत्र मरणं मरः । स्वरान्तत्वादलप्रत्ययः । न विद्यते जरा-मरौ यत्र तदजरा-मरम् । इदं च कषायोदयरहितत्वात् क्षीणमोहोपशान्तमोहलक्षणस्य च्छद्मस्थवीतरागस्य सयोग्य-ऽयोगिकेवलिनश्च भवति ।। इति नियुक्तिगाथाद्यसंक्षेपार्थः ॥ १२६० ॥ १२६१॥ विस्तरार्थ तु भाष्यकृदाह सव्वमिणं सामाइयं छेयाइविसेसओ पुणो भिन्नं । अविसेसियमाइमयं ठियमिह सामन्नसन्चाए ॥१२६२॥ सावजजोगविरइ त्ति तत्थ सामाइयं दुहा तं च । इत्तरमावकहं ति य पढमं पढम-तिमजिणाणं ॥१२६३॥ तित्थेसुमणारोवियवयस्स सेहस्स थोवकालीयं । सेसाणमावकहियं तित्थेसु, विदेहयाणं च ॥ १२६४ ॥ सर्वमपीदं चारित्रमविशेषतः सामायिकमेव । एतदेव च च्छेदादिविशेषैर्विशेष्यमाणमर्थतः संज्ञातश्च नानात्वं प्रतिपद्यते । तत्रायं विशेषणाभावात् सामान्यसंज्ञायामेवावतिष्ठते सामायिकमिति । तत्र सावद्ययोगविरातिस्वरूपमेतत् सामायिकम् । तच्च द्विधा- इत्वरम् , यावत्कथिकं च । तत्रेत्वरं स्वल्पकालीनं भरतै-रावनाऽऽद्य-चरमतीर्थकरतीर्थयोरेवानारोपितमहाव्रतस्य शिष्यकस्य द्रष्टव्यम् । यावत्कथिक यावजीविकं भरतै-रावतप्रथम-चरमवर्जशेषतीर्थकरतार्थसाधूनां, महाविदेहजानां च साधूनामवसेयमिति ॥१२६२॥१२६३॥१२६४॥ अथ प्रेरकः प्राह नणु जावज्जीवाए इत्तिरियं पि गहियं मुयंतस्स । होइ पइण्णालोवो जहावकहियं मुयंतस्स ॥ १२६५॥ आह- ननु 'करोमि भदन्त ! सामायिक यावज्जीवम् ' इत्येवं व्रतग्रहणकाले इत्वरमपि सामायिकं गृहीतमुपस्थापनायां मुश्चतः प्रतिज्ञालोपः प्राप्नोति, यावत्कयिकपरित्याग इव ॥ १२६५ ॥ १ सर्वमिदं सामायिकं छेदादिविशेषतः पुनर्भिन्नम् । अविशेषितमादिमकं स्थितमिह सामान्यसंज्ञायाम् ॥ १२५२ ॥ सावद्ययोगविरतिरिति तत्र सामायिकं द्विधा तच्च । इत्वरं यावत्कथमिति च प्रथमं प्रथमा-ऽन्तिमजिनयोः ॥ १२६३ ॥ तीर्थयोरनारोपितव्रतस्य शैक्षस्य स्तोककालिकम् । शेषाणां यावत्काथिकं तीर्थेषु, विदेहजानां च ॥१२६४॥ २ क. ग. 'यमह'। ३ ननु यावज्जीवमित्वरमपि गृहीतं मुञ्चतः । भवति प्रतिज्ञालोपो यथा यावस्कधिकं मुञ्चतः ॥ १२६५ ॥ Jan Education Internatio For Personal and Private Use Only www.jaineltrary.ary

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202