________________
विशेषा
बत्तिः।
नस्य प्राप्यते । चः समुच्चये। ततश्च मूक्ष्मसंपरायानन्तरं सर्वत्र साधुनीवलोके ख्यातं प्रसिद्धं यथाख्यातं पञ्चमं सर्वविशुद्धं चारित्रं भवति । तत् कथम्भूतम् ?, इत्याह- यच्चरित्वाऽऽसेव्य, शोभनं विहितमनुष्ठानं येषां ते सुविहिताः सुसाधवो वजन्त्यजरा-मरं मोक्षलक्षणं स्थानम्। तत्र मरणं मरः । स्वरान्तत्वादलप्रत्ययः । न विद्यते जरा-मरौ यत्र तदजरा-मरम् । इदं च कषायोदयरहितत्वात् क्षीणमोहोपशान्तमोहलक्षणस्य च्छद्मस्थवीतरागस्य सयोग्य-ऽयोगिकेवलिनश्च भवति ।। इति नियुक्तिगाथाद्यसंक्षेपार्थः ॥ १२६० ॥ १२६१॥
विस्तरार्थ तु भाष्यकृदाह
सव्वमिणं सामाइयं छेयाइविसेसओ पुणो भिन्नं । अविसेसियमाइमयं ठियमिह सामन्नसन्चाए ॥१२६२॥ सावजजोगविरइ त्ति तत्थ सामाइयं दुहा तं च । इत्तरमावकहं ति य पढमं पढम-तिमजिणाणं ॥१२६३॥ तित्थेसुमणारोवियवयस्स सेहस्स थोवकालीयं । सेसाणमावकहियं तित्थेसु, विदेहयाणं च ॥ १२६४ ॥
सर्वमपीदं चारित्रमविशेषतः सामायिकमेव । एतदेव च च्छेदादिविशेषैर्विशेष्यमाणमर्थतः संज्ञातश्च नानात्वं प्रतिपद्यते । तत्रायं विशेषणाभावात् सामान्यसंज्ञायामेवावतिष्ठते सामायिकमिति । तत्र सावद्ययोगविरातिस्वरूपमेतत् सामायिकम् । तच्च द्विधा- इत्वरम् , यावत्कथिकं च । तत्रेत्वरं स्वल्पकालीनं भरतै-रावनाऽऽद्य-चरमतीर्थकरतीर्थयोरेवानारोपितमहाव्रतस्य शिष्यकस्य द्रष्टव्यम् । यावत्कथिक यावजीविकं भरतै-रावतप्रथम-चरमवर्जशेषतीर्थकरतार्थसाधूनां, महाविदेहजानां च साधूनामवसेयमिति ॥१२६२॥१२६३॥१२६४॥
अथ प्रेरकः प्राह
नणु जावज्जीवाए इत्तिरियं पि गहियं मुयंतस्स । होइ पइण्णालोवो जहावकहियं मुयंतस्स ॥ १२६५॥
आह- ननु 'करोमि भदन्त ! सामायिक यावज्जीवम् ' इत्येवं व्रतग्रहणकाले इत्वरमपि सामायिकं गृहीतमुपस्थापनायां मुश्चतः प्रतिज्ञालोपः प्राप्नोति, यावत्कयिकपरित्याग इव ॥ १२६५ ॥
१ सर्वमिदं सामायिकं छेदादिविशेषतः पुनर्भिन्नम् । अविशेषितमादिमकं स्थितमिह सामान्यसंज्ञायाम् ॥ १२५२ ॥ सावद्ययोगविरतिरिति तत्र सामायिकं द्विधा तच्च । इत्वरं यावत्कथमिति च प्रथमं प्रथमा-ऽन्तिमजिनयोः ॥ १२६३ ॥ तीर्थयोरनारोपितव्रतस्य शैक्षस्य स्तोककालिकम् । शेषाणां यावत्काथिकं तीर्थेषु, विदेहजानां च ॥१२६४॥ २ क. ग. 'यमह'। ३ ननु यावज्जीवमित्वरमपि गृहीतं मुञ्चतः । भवति प्रतिज्ञालोपो यथा यावस्कधिकं मुञ्चतः ॥ १२६५ ॥
Jan Education Internatio
For Personal and Private Use Only
www.jaineltrary.ary