SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥५५४॥ PPOOR बनBE सामाइय त्थ पढम छेओवट्ठावणं भवे बीयं । परिहारविसुद्धीयं सुहुमं तह संपरायं च ॥ १२६० ॥ तत्तो य अहक्खायं खायं सवम्मि जीवलोयम्मि । जं चरिऊण सुविहिया वच्चंतयरा-मरं ठाणं ॥१२६१॥ बृहद्वृत्तिः । ___ राग-द्वेषविरहितः समस्तस्य प्रतिक्षणमपूर्वापूर्वनिर्जराहेतुभूताया विशुद्धेरायो लाभः समायः, स एव सामायिकं सर्वसावद्ययोगविरमणमित्यर्थः । ततश्च सर्वमप्येतच्चारित्रमविशेषतः सामायिकमेव छेदादिविशेषैस्तु विशेष्यमाणमर्थतः संज्ञातश्च नानात्वं प्रतिपद्य| ते । तदत्रैतेषु मध्ये प्रथमं छेदादिविशेषाणामभावात् सामान्यसंज्ञायामेवावतिष्ठते सामायिकम् । एतञ्च द्विधा- इत्वरम् , यावत्कथिकं च । तत्र स्वल्पकालभावीत्वरम् । इदं च भरते-रावतक्षेत्रेषु प्रथम-पश्चिमतीर्थकरतीर्थेऽनारोपितमहाव्रतस्य शिष्यस्य विज्ञेयम् । अत्र जन्मनि यावजीवितकथाऽस्त्यात्मनः, तावत्कालभावि यावत्कथं तदेव यावत्कथिकम् , आभववर्तीत्यर्थः । एतच्च भरतै-रावतमध्यमद्वाविंशतितीर्थकरसाधूनां, महाविदेहार्हत्संयतानां चावसेयम् , एपामुपस्थापनाया अभावादिति । द्वितीयं तु चारित्रं छेदोपस्थापनमुच्यते । तत्र च्छेदश्चोपस्थापना च यस्मिंश्चारित्रे तच्छेदोपस्थापनम्-पूर्वपर्यायस्य च्छेदः, महाव्रतेषूपस्थापनं चात्मनो यत्र तच्छेदोपस्थापनमित्यर्थः । एतदपि द्विधा- सातिचारम् , अनतिचारं च । तत्रानतिचारं यदित्वरसामायिकस्य शिष्यस्योपस्थापनायामारोप्यते; तीर्थान्तरसंक्रान्तौ वा, यथा पार्श्वनाथतीर्थाद् महावीरतीर्थ संक्रामतः पश्चयामधर्मप्रतिपत्ताविति । सातिचारं तु मूलगुणघातिनो यत्पुनरपि महाव्रतारोपणमिति । तृतीयं तु चारित्रं परिहारविशुद्धिकम् । तत्र परिहरणं परिहारस्तपोविशेषः, तेन कर्मनिर्जरारूपा विशुद्धिर्यस्मिश्चारित्रे तत् परिहारविशुद्धिकम् । एतदपि विभेदम्- निर्विशमानकम, निर्विष्टकायिकं च । तत्रास्यैव चारित्रस्यासेवकाः साधवो निर्विशमानका उच्यन्ते, तदव्यतिरेकादिदमपि चारित्रं निर्विशमानकं भण्यते । आसेवितैतच्चारित्रकायास्तु मुनयो निर्विष्टकायाः, त एव खार्थिकात्ययोपादानाद् निर्विष्टकायिकाः, तदभेदादिदमपि चारित्रं निर्विष्टकायिकम् । एतत्स्वरूपं च विस्तरतो भाष्येऽभिधास्यत इति । 'तथा' इत्यानन्तर्ये, गाथाभङ्गभयाद् व्यवाहितस्योपन्यासः, 'मूक्ष्मम्' इत्यनुस्वारोऽप्यलाक्षणिकः । मूक्ष्मसंपरायं चतुर्थ चारित्रम् । तत्र संपर्यत्येभिः संसारमिति संपरायाः कषायाः, मूक्ष्मा लोभांशावशेषत्वात् संपराया यत्र तत् मूक्ष्मसंपरायम् । इदमपि द्विविधम्विशुध्यमानकं संक्लिश्यमानकं च । तत्र विशुध्यमानकं क्षपको-पशमश्रेणियमारोहतो भवति । संक्लिश्यमानकं तूपशमश्रेणेः प्रच्यवमा ॥५५४॥ १ सामायिकमन्त्र प्रथमं छेदोपस्थापनं भवेद् द्वितीयम् । परिहारविशुद्धिकं तथा सूक्ष्मसंपरायं च ॥ १२६०॥ ततश्च यथाख्यातं ख्यातं सर्वस्मिजीवलोके । बच्चरित्वा सुविहिता ब्रजन्त्य जरा-मरं स्थानम् ॥ १२६१ ॥ Jan Education Internati For Personal and Private Use Only www.jaineltrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy