________________
KA
विशेषा.
बृहद्वत्तिः ।
॥५५३॥
सामायिक-च्छेदोपस्थापनीय-परिहारविशुद्धिकलक्षणान्यायानि त्रीणि चारित्राणि श्रेणियादन्यत्र कषायक्षयोपशमात् पूर्वप्रतिपन्नानि प्रतिपद्यमानानि च लभ्यन्ते, अनिवृत्तिवादरस्य पुनरुपशमश्रेणौ तदुपशमात् पूर्वप्रतिपन्नानां तेषां लाभः, क्षपकश्रेणौ तु क्षयादिति । सूक्ष्मसंपराय-यथाख्यातचारित्रे तूपशमश्रेणी कषायोपशमात् , क्षपकश्रेणौ तु तत्क्षयाल्लभ्येते, नान्यतः- क्षयोपशमाद् न प्राप्यत इत्यर्थः॥१२५७॥
आह- ननु 'तस्स विसेसा इमे पंच' इत्यत्र किं सामान्यं चारित्रमानं तच्छब्दस्य वाच्यम् , आहोस्विद् द्वादशानां कषायाणां क्षयादिभ्यो यदनन्तरमेवोक्तं तदेव ?, इत्याशङ्कयाह
लेब्भइ चरित्तलाभो खयाइओ बारसह नियमोऽयं । न उ पंचविहनियमणं पंच विसेस त्ति सामण्णं ॥१२५८॥
द्वादशानां कषायाणां क्षयादितः क्षय-क्षयोपशमो-पशमेभ्य एव लाभश्चारित्रस्य, नान्यथा, इत्येवमेवेह नियमो द्रष्टव्यः, न तु पञ्चविधनियमनम्- द्वादशकषायाणामेव क्षयादितो लब्धस्य चारित्रस्य पञ्चैते विशेषा इत्येवंभूतो नियमोऽत्र ने कर्तव्य इत्यर्थः । किं तर्हि ? । द्वादशानां, अधिकानां वा कपायाणां क्षयादितो लब्धस्य तस्य सामान्येनैव चारित्रस्यते वक्ष्यमाणाः पञ्च विशेषा इत्येवं सामान्यं चारित्रमानं तच्छब्दस्य संबध्यत इति ॥ १२५८ ॥ अथ कस्माद् द्वादशकषायाणामेव क्षयादितो लब्धस्य चारित्रस्य पञ्चैते विशेषा इत्येवंभूतो नियमोऽत्र न क्रियते ?, इत्याह
जं तिण्णि बारसण्हं लब्भति खयाइओ कसायाण ।सुहुमं पण्णरसण्हं चरिमं पुण सोलसण्हं पि ॥ १२५९ ॥
यतः सामायिक-च्छेदोपस्थापनीय-परिहारविशुद्धिकलक्षणानि त्रीण्येव चारित्राणि द्वादशकषायाणां क्षयादितो लभ्यन्ते, इति कथं तत्क्षयादिलभ्यस्य चारित्रस्य पञ्चविधत्वं स्यात् । सूक्ष्मसंपरायचारित्रं तु संज्वलनलोभवर्जितानां शेषपञ्चदशकषायाणां क्षयात् , उपशमाद् वा लभ्यते । चरमं तु यथाख्यातचारित्रं षोडशानामपि कपायाणां क्षयाद , उपशमाद् वा प्राप्यते । एवं च सति सामान्यस्यैव चारित्रस्य पञ्च विशेषा भवन्ति ॥ इति गाथापचकार्थः ॥ १२५९ ॥
के पुनस्ते पञ्च विशेषाः?, इत्याह१ गाथा १२५४ । २ लभ्यते चारित्रलाभः क्षयादितो द्वादशानां नियमोऽयम् । न तु पञ्चविधनियमन पञ्च विशेषा इति सामान्यम् ॥ १२५८ ॥ ३ क.ग. 'न क्रियत । यत् त्रीणि द्वादशानां लभ्यन्ते क्षयादितः कषायाणाम् । सूक्ष्म पञ्चदशानां चरम पुनः पोडशानामपि ॥ १२५९ ॥
॥५५३॥
For Personal and
Use Only