________________
विशेषा० ॥५५१॥
लोपाच्छेदान्ताः, सर्वेऽप्यतिचाराः संज्वलनकपायोदयजन्या भवन्ति । शेषकषायाणां द्वादशानामुदये मूलच्छेद्यं समस्तचारित्रोच्छेद-31 कारकं दोपजातं भवति । तद्विशुद्धये च प्रायश्चित्तं पुनर्वतारोपणमिति ॥ १२५० ॥
बृहद्वत्तिः । अथवा, यथासंभवं मूलच्छेद्यं योज्यते, इत्येतदाह
अहवा संजममूलच्छेज्जं तइयकलुसोदए निययं । सम्मत्ताईमूलच्छेज्जं पुण बारसहं पि ॥ १२५१ ॥
तृतीयानां प्रत्याख्यानावरणकषायाणामुदये संयमस्य सर्वविरतिरूपस्य मूलच्छेद्यं नियतं निश्चितं भवति, सम्यक्त्वादिमूलच्छेयं तु द्वादशानामप्युदये संपद्यत इति ॥ १२५१ ॥
अथ प्रेयमाशङ्कय परिहरनाहमूलच्छेजे सिद्धे पुव्वद्धे मूलगुणघाइगहणेणं । इय कीस पुणो गहणं अइयारविसेसणत्थं ति ॥१२५२॥ पगयमहक्खायं ति य अइयारे तम्मि चेव मा जोए । तो मूलच्छेज्जमिणं सेसचरित्ते निओएइ ॥१२५३॥
आह- नन्वनन्तरनिर्दिष्टनियुक्तिगाथायां 'मूलगुणाणं लभं न लहइ मूलगुणघाइणो उदए' इत्येतस्मिन् पूर्वार्धे मूलगुणघातिग्रहणेन द्वादशकपायाणामुदये मूलच्छेद्यं सिद्धमेव, किमितीह पुनस्तद्ग्रहणम् । अत्रोत्तरमाह- अतिचारविशेषणार्थमिति- अतिचाराणां विशेषे व्यवस्थापनार्थमित्यर्थः । इदमेव व्यक्तीकुर्वन्नाह- 'पगयमित्यादि । इदमुक्तं भवति- "संजलणाणं उदए न लहइ चरणं अहक्खाय' इत्यनन्तरनियुक्तिगाथोत्तरार्धादिह यथाख्यातचारित्रं प्रकृतमनुवर्तते । ततश्च 'सव्वे चिय अइयारा संजलणाणं तु उदयओ होति' इत्येतानतिचाराननन्तरानुवर्तमाने यथाख्यातचारित्र एव शिष्योऽयोक्षीत् , तदेतद् मा भूत् । ततस्तेनेह पुनरपि मूलच्छेद्यमेतद् यथाख्यातवर्जितेऽशेषचारित्रे सामायिकादिके नियोजयति । अस्यां हि गाथायां मूलच्छेद्यग्रहणात् पुनःशब्दविशेषणाच्चायमर्थः संपद्यते । संज्वलनानामुदये शेषचारित्रस्य सर्वेऽप्यतिचारा भवन्ति, द्वादशकषायाणामुदये पुनर्मूलच्छेद्यं भवति । यस्यैवास्यां गाथायां मूलच्छेद्यमुक्तम् , तस्यैवातिचारा अपि, न तु यथाख्यातचारित्रस्य, कषायोदयरहितत्वेन तस्य निरतिचारत्वात् ।। इति गाथाचतुष्टयार्थः ॥ १२५२ ॥ १२५३ ॥ १ अथवा संयममूलच्छेद्य तृतीयकलुषोदये नियतम् । सम्यक्त्वादिमूलच्छेचं पुनद्वादशानामपि ॥ १२५१ ॥
॥५५१॥ २ मूलच्छेचे सिद्ध पूर्वार्धे मूलगुणपातिग्रहणेन । इति कस्मात् पुनर्ग्रहणमतिचारविशेषणार्थमिति ॥ १२५२॥ प्रकृतमथाख्यातमिति चातिचारे तस्मिन्नेव मा यौक्षीत् । ततो मूलच्छेद्यमिदं शेषचारित्रे नियोजयति ॥१२५३॥ ३ गाथा १२३८ । ४ गाथा १२४९ ।
For Pesond
er
m.janelbrary.org