Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 146
________________ kedIDEOS PCOSHI ed कषायाः। ते च बहुवचननिर्देशाच्चत्वारः क्रोधादयो गम्यन्ते । एवं देशविरत्याद्युत्तरोत्तरगुणघातित्वाद् द्वितीय-तृतीय-चतुर्थत्वेन, विशेषा० कपायशब्दादिवाच्यत्वेन च द्वितीयादयोऽपि मताः संमता इति ॥ १२२८ ॥ १२२९ ॥ बृहद्वृत्तिः। ॥५४४॥ 'भवसिद्धीया वि' इत्येतद् व्याख्यानयतिभवसिद्धिया वि भणिए नियमा न लहंति तयमभव्या वि । अविसद्देण व गहिया परित्तसंसारियाईया॥१२३०॥ 'भवसिद्धिकाः' इत्युक्तेऽपिशब्दात् 'अभव्यास्तु नैव लभन्ते' इत्यवगम्यत एव । अथवा, अपिशब्दात् 'परीत्तसंसाराद-EN योऽपि न लभन्ते' इति गम्यते ॥ इति गाथाचतुष्टयार्थः ।। उक्ताः सम्यक्त्वस्याऽऽवरणभूताः कषायाः ।। १२३०॥ ___ अथ देशविरत्यावरणभूतांस्तानाह___ बीयकसायाणुदए अप्पच्चक्खाणनामधेयाणं । सम्मईसणलंभं विरयाविरई न उ लहति ॥ १२३१॥ सर्वप्रत्याख्यानं देशप्रत्याख्यानं च येषामुदये न लभ्यते, ते प्रत्याख्यानाः; अकारस्य सर्वप्रतिषेधवचनत्वात् , अप्रत्याख्याना नामधेयं येषां तेऽप्रत्याख्याननामधेयास्तेषामप्रत्याख्याननामधेयानाम् । द्वितीयस्य देशविरतिगुणस्याऽऽवारकत्वाद् द्वितीयाः, ते च ते कपायाश्च द्वितीयकषायास्तेषां द्वितीयकषायाणामुदये 'भव्याः सम्यग्दर्शनलाभं लभन्ते' इति वाक्यशेषः । अयं च वाक्यशेषो 'विरयाविरई न उ लहति' इत्यत्र तुशब्दोपादानाल्लभ्यते, एषामुदये भव्याः सम्यग्दर्शनलाभं लभन्ते, विरताविरतिं देशविरतिं पुनर्न लभन्त इति वाक्यसंगतेरिति । विरतं चाऽविरतिश्च यस्यां निवृत्तौ सा विरताविरतिस्ताम् ॥ इति नियुक्तिगाथार्थः ॥ १२३१॥ भाष्यम् सव्वं देसो व जओ पच्चक्खाणं न जेसिमुदएणं । ते अप्पचक्खाणा सव्वनिसेहे मओऽकारो ॥१२३२॥ सम्मइंसणलंभ लभंति भविय त्ति वक्कसेसोऽयं । विरयाविरइविसेसणतुसहसंलक्खिओऽयं च ॥१२३३॥ १ गाथा १२२६ । २ भवसिद्धिका अपि भणिते नियमाद् न लभन्ते तदभव्या भपि । अपिशब्देन वा गृहीताः परीत्तसंसारादिकाः ॥ १२३० ।। द्वितीयकषायाणामुदयेऽप्रत्याख्याननामधेयानाम् । सम्यग्दर्शनलाभं विरताविरतिं न तु लभन्ते ॥१२॥ ॥५४४॥ ५ सर्व देशो वा यतः प्रत्याख्यानं न येषामुदयेन । तेऽप्रत्याख्यानाः सर्वनिषेधे मतोऽकारः ॥ १२॥२॥ सम्यग्दर्शनलाभ लभन्ते भव्या इति वाक्यशेषोऽयम् । विरताविरतिविशेषणतुशब्दसंलक्षितोऽयं च ॥ १२३३॥ Jan Edu n temat For Personal and Private Use Only

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202