Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
RSS
बृहद्वत्तिः ।
॥५४२॥
SIODIC
S
सागरोपमेषु क्षपितेषु क्षपक श्रेणिर्भवतीति ॥ १२२२ ॥
कियत्सु भवेष्वेवं देशविरत्यादिलाभो भवति', इत्याह
एवं अपरिवडिए सम्मत्ते देव-मणुयजम्मेसु । अण्णयरसेढिवजं एगभवेणं व सव्वाइं ॥ १२२३ ॥
एवमप्रतिपतितसम्यक्त्वस्य देव-मनुष्यजन्मसु संसरणं कुर्वतोऽन्योन्यमनुष्यभवे देशविरत्यादिलाभो भवति । यदिवा, तीब्रशुभपरिणामवशात् क्षपितबहुकर्मस्थितेरेकस्मिन्नपि भवेऽन्यतरश्रेणिवर्जाण्येतानि सर्वाण्यपि भवन्ति । श्रेणियं त्वेकस्मिन् भवे सैद्धान्तिकाभिप्रायेण न भवत्येव, किन्त्वेकैवोपशमश्रेणिः, क्षपकश्रेणिर्वा भवतीति ।। तदेवमभिहितं क्रमद्वारम् ॥ १२२३ ॥
अथ तदावरणद्वारं चेतसि निधाय वक्ष्यमाणगाथासंबन्धनार्थमाह
अहुणा जस्सोदयओ न लभइ दंसणाइसामइयं । लई व पुणो भस्सइ तदिहावरणं कसायाई ॥ १२२४॥
सुगमा, नवरं तदिह कषायादिकमावरणमुच्यते । तत्रानन्तानुबन्धिकषायचतुष्टयं मिथ्यात्वं च सम्यक्त्वस्याऽऽवरणम् , श्रुतस्य श्रुतज्ञानावरणम् , चारित्रस्य चारित्रमोहनीयमिति, तदेवाह- 'पढमिल्लुंआणेत्यादि । १२२४ ॥
अथवा पातनान्तरमाह
अहवा खयाइओ केवलाइं जं जेसिं ते कइ कसाया । को वा कस्सावरणं को व खयाइक्कमो कस्स?॥१२२५॥
अथवा, यत् केवलादिकं, आदिशब्दाद् दर्शन-चारित्रादिपरिग्रहः, येषां कषायाणां क्षयादितो भवति, आदिशब्दात् क्षयोपशमादिपरिग्रहः । ते कति कषायाः?, को वा कस्य सामायिकस्याऽऽवरणम् ? , को वा क्षयादिक्रमः कस्य ? ॥ इत्येकविंशतिगाथार्थः॥ १२२५॥
अथ क्रमेणोत्तरमाहपंढमिल्लुआण उदए नियमा संजोयणाकसायाणं । सम्मईसणलंभं भवसिद्धीया विन लहंति ॥१२२६॥
१ एवमप्रतिपतिते सम्यक्त्वे देव-मनुजजन्मसु । अन्यतरश्रेणिवर्जमेकभवेन वा सर्वाणि ॥ १२२३ ॥ २ क. ग. 'संचर'। ३ अधुना यस्योदयतो न लभते दर्शनादिसामायिकम् । लब्धं वा पुनभ्रंश्यति तदिहावरणं कषायादिः ॥ १२२४ ॥ ४ अथवा क्षयादितः केवलादि यद् येषां ते कति कषायाः । को वा कस्यावरणं को वा क्षयादिक्रमः कस्य ? ॥ १२२५॥ ५ क. ग. 'नप' । ६ प्रथमानामुपये नियमात् संयोजनाकाषायणाम् । सम्यग्दर्शनलाभं भवसिद्धिका अपि न लभन्ते ॥ १२२६ ॥
॥५४२।।
Jan Education Internationa
For Personal and Private Use Only
ww.jainelibrary.org
Loading... Page Navigation 1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202