Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 143
________________ विशेषा ० ॥५४१॥ Jain Educationa Internation अर्हदादिविभूतिमतिशयवतीं दृष्ट्वा 'धर्मादेवंभूतः सत्कारः, देवत्वराज्यादयो वा प्राप्यन्ते' इत्येवमुत्पन्नबुद्धेरभव्यस्यापि ग्रन्थिस्थानं प्राप्तस्य ' तद्विभूतिनिमित्तम्' इति शेषः देवत्व- नरेन्द्रत्व- सौभाग्य-रूप- बलादिलक्षणेनाऽन्येन वा प्रयोजनेन सर्वथा निर्वाश्रद्धानरहितस्याsभव्यस्यापि कष्टानुष्ठानं किञ्चिदङ्गीकुर्वतोऽज्ञानरूपस्य श्रुतसामायिकमात्रस्य लाभो भवेत्, तस्याऽप्येकादशाङ्गपाठानुज्ञानात् । सम्यक्त्वादिलाभस्तु तस्य न भवत्येव, अभव्यत्वहानिप्रसङ्गादिति ॥ १२१९ ॥ अथ यदुक्तम्- 'अब्बेण तिपुंजं मिच्छत्तं कुणई' इत्यादि । तद्विवरणमाह haणादरनिव्वालिया निव्वलिया य जह कोदवा तिविहा। तह मिच्छत्तं तिविहं परिणामवसेण सो कुणइ ॥ १२२० ॥ यथा परिकर्म्यमाणाः कोद्रवास्त्रिविधा भवन्ति, तद्यथा - मदना:- अशुद्धा एवेत्यर्थः, तथा, 'दरनिव्वलिय त्ति ' ईषनिर्वलिताः शुद्धाशुद्धस्वरूपा इत्यर्थः, 'निव्वलिया यत्ति' निर्वलिताय शुद्धा एवेत्यर्थः, तथाऽपूर्वकरणलक्षणपरिणामवशेन शुद्धाशुद्धमिश्रभेदाद् मिथ्यात्वं जीवस्त्रिविधं करोतीति ।। १२२० ॥ अथ जल-वस्त्रदृष्टान्तौ युगपदाह जैह वेह किंचि मलिणं दरसुद्धं सुद्धमंबु वत्थं च । एवं परिणामवसा करेइ सो दंसणं तिविहं ॥ १२२१ ॥ यथा वा किश्चिदम्बु जलं, वस्त्रं च मलिनं कलुषं भवति- शोध्यमानमपि न शुध्यति, किञ्चित्तु दरशुद्धमीषद् विशुद्धं भवति, अपरं तु शुद्धं भवति । एवमपूर्वकरणलक्षणपरिणामवशाद् दर्शनमोहनीयं कर्म जीवो मिथ्यात्व-मिश्र सम्यक्त्वभेदात् त्रिधा करोतीति । १२२१ ॥ ननूक्त इत्थं सम्यक्त्वलाभः, अथ देशविरत्यादिलाभः कथम् १, इत्याह सम्मत्तम्मि उ लद्धे पलियपुहत्तेण सार्वओ होज्जा । चरणो-वसम-खयाणं सागर संखतरा होंति ॥ १२२२॥ यावत्यां कर्मस्थितौ सम्यक्त्वं लब्धं तन्मध्यात् परयोपमपृथक्त्वलक्षणस्थितिखण्डे क्षपिते श्रावको देशविरतो भवेत् । ततोऽपि संख्यातेषु सागरोपमेषु क्षपितेषु चारित्रमवाप्नोति । ततोऽपि संख्यातेषु सागरोपमेषु क्षपितेषूपशमश्रेणीं प्रतिपद्यते, ततोऽपि संख्यातेषु १ गाथा १२१८ । २ मदना दरनिर्वलिता निर्वलिता यथा कोद्रवास्त्रिविधाः । तथा मिध्यात्वं त्रिविधं परिणामवशेन स करोति ॥ १२२० ॥ ३ यथा वेह किञ्चिद् मलिनं दरशुद्धमम्बु वनं च । एवं परिणामवशात् करोति स दर्शनं त्रिविधम् ॥ १२२ ॥ ४ सम्यक्त्वे तु लब्धे पल्यपृथक्त्वेन धावको भवेत् । चरणोपशम-क्षयाणां सागराः संख्या अन्तरं भवन्ति । १२२२ ॥ ५ क. ग. 'बगो हो' । For Personal and Private Use Only बृहद्वृत्तिः । ॥५४१ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202