Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
॥५२॥
तौ तिरस्कृत्य समतिक्रम्य चेष्टपुरं प्राप्तः । एवं प्रस्तुतेऽपि सर्वमिदं योज्यते. तथाहि- अटवी तावद् भवो द्रष्टव्यः । मनुष्यत्रयरूपास्तु व्यावृत्ताभिन्नग्रन्थिक-ग्रन्थिदेशस्थित-भिन्नग्रन्थिकभेदात् त्रिविधा जीवाः । दीर्घः पन्था द्राधीयसी कर्मस्थितिः, तदतिक्रमणं दीर्घकर्मस्थितिक्षपणम् । भयस्थानं ग्रन्थिदेशः । चौरौ तु राग-द्वेषौ । भग्नः प्रतीपगामी ग्रन्थिदेशमेत्य पुनरप्यशुभपरिणामः कर्मस्थितिवधकः । तस्करद्वयगृहीतस्तूदितप्रबलराग-द्वेषो ग्रन्थिकसत्त्वः । इष्टपुरप्राप्तस्तु सम्यग्दर्शनादिषु प्राप्तः । अथ करणत्रयं योज्यते-पुरुषत्रयस्य स्वाभाविकगमनं ग्रन्धिदेशमापकं यथाप्रवृत्तिकरणम् , शीघ्रगमनेन तस्करातिक्रमणमपूर्वकरणम् , इष्टसम्यक्त्वादिपुरमापकमनिवर्तिकरणमिति ॥१२११ ॥ १२१२ ॥ १२१३ ॥ १२१४ ॥
आह- ननु ग्रन्थिभेदं कृत्वा सम्यक्त्वादिरूपं निर्वाणपथं जीवाः किं परोपदेशाल्लभन्ते, स्वयमेव वा, न लभन्ते वोभयथापि, इत्याशङ्कय पथदृष्टान्तमाह
उवएसओ सयं वा लभइ पहं कोइ न लभए कोइ । गंठिट्ठाणं पत्तो सम्मत्तपहं तहा भव्वो ॥ १२१५ ॥ ___यथेह कश्चित् पथि परिभ्रष्टोऽटव्यामितश्चेतश्च परिभ्रमन् कथमपि स्वयमेव लभते पन्थानम् , कश्चित् तु परोपदेशात् तं मा. प्नोति. कोऽपि पुनर्न लभते । एवं सर्वथा प्रनष्टसत्पथो जीवः संसाराटव्यां पर्यटन कोऽपि भव्यो ग्रन्थिस्थान प्राप्तः खयमेव सम्यक्त्वा| दिसत्पथं लभते, कोऽपि परोपदेशात् , कश्चित्तु दूरभव्यः, अभव्यो वा न लभते-ग्रन्थिदेशप्राप्तोऽपि ह्यसौ व्यावर्तत इति भावः ॥१२१५॥
अथ ज्वरगृहीतदृष्टान्तमाह
भेसज्जेण सयं वा नस्सइ जरओ न नस्सए कोइ । भव्वस्स गंठिदेसे मिच्छत्तमहाजरो चेवं ॥ १२१६ ॥
यथा ज्वरगृहीतस्य कस्यापि कथमपि ज्वरः खयमेवापति, कस्यचित्तु भेषजोपयोगात् , अपरस्य तु नापगच्छति । एवं मिध्यात्वमहाज्वरोऽपि कस्यापि ग्रन्थिभेदादिक्रमेण स्वयमेवापगच्छति, कस्यचित्तु गुरुवचनभेषजोपयोगात् , अन्यस्य तु नापैति । तदेवमेतास्तिस्रोऽपि गतयो भव्यस्य भवन्ति, अभव्यस्य त्वेकैव तृतीया गतिरिति ॥ १२१६ ॥
Bes
॥५३९॥
उपदेशतः स्वयं वा लभते पथं कश्चिद् न लभते कश्चित् । प्रन्थिस्थान प्राप्तः सम्यक्त्वपथं तथा भव्यः ॥ १२१५ ॥ २ भैषज्येन स्वयं वा नश्यति ज्वरको न नश्यति कश्चित् । भन्यस्य प्रन्थिदेशे मिथ्यात्वमहाज्वरश्चैवम् ॥ १२॥
Jan Education Internation
For Personal and Private Use Only
B
ww.jaineltrary.org
Loading... Page Navigation 1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202