SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥५२॥ तौ तिरस्कृत्य समतिक्रम्य चेष्टपुरं प्राप्तः । एवं प्रस्तुतेऽपि सर्वमिदं योज्यते. तथाहि- अटवी तावद् भवो द्रष्टव्यः । मनुष्यत्रयरूपास्तु व्यावृत्ताभिन्नग्रन्थिक-ग्रन्थिदेशस्थित-भिन्नग्रन्थिकभेदात् त्रिविधा जीवाः । दीर्घः पन्था द्राधीयसी कर्मस्थितिः, तदतिक्रमणं दीर्घकर्मस्थितिक्षपणम् । भयस्थानं ग्रन्थिदेशः । चौरौ तु राग-द्वेषौ । भग्नः प्रतीपगामी ग्रन्थिदेशमेत्य पुनरप्यशुभपरिणामः कर्मस्थितिवधकः । तस्करद्वयगृहीतस्तूदितप्रबलराग-द्वेषो ग्रन्थिकसत्त्वः । इष्टपुरप्राप्तस्तु सम्यग्दर्शनादिषु प्राप्तः । अथ करणत्रयं योज्यते-पुरुषत्रयस्य स्वाभाविकगमनं ग्रन्धिदेशमापकं यथाप्रवृत्तिकरणम् , शीघ्रगमनेन तस्करातिक्रमणमपूर्वकरणम् , इष्टसम्यक्त्वादिपुरमापकमनिवर्तिकरणमिति ॥१२११ ॥ १२१२ ॥ १२१३ ॥ १२१४ ॥ आह- ननु ग्रन्थिभेदं कृत्वा सम्यक्त्वादिरूपं निर्वाणपथं जीवाः किं परोपदेशाल्लभन्ते, स्वयमेव वा, न लभन्ते वोभयथापि, इत्याशङ्कय पथदृष्टान्तमाह उवएसओ सयं वा लभइ पहं कोइ न लभए कोइ । गंठिट्ठाणं पत्तो सम्मत्तपहं तहा भव्वो ॥ १२१५ ॥ ___यथेह कश्चित् पथि परिभ्रष्टोऽटव्यामितश्चेतश्च परिभ्रमन् कथमपि स्वयमेव लभते पन्थानम् , कश्चित् तु परोपदेशात् तं मा. प्नोति. कोऽपि पुनर्न लभते । एवं सर्वथा प्रनष्टसत्पथो जीवः संसाराटव्यां पर्यटन कोऽपि भव्यो ग्रन्थिस्थान प्राप्तः खयमेव सम्यक्त्वा| दिसत्पथं लभते, कोऽपि परोपदेशात् , कश्चित्तु दूरभव्यः, अभव्यो वा न लभते-ग्रन्थिदेशप्राप्तोऽपि ह्यसौ व्यावर्तत इति भावः ॥१२१५॥ अथ ज्वरगृहीतदृष्टान्तमाह भेसज्जेण सयं वा नस्सइ जरओ न नस्सए कोइ । भव्वस्स गंठिदेसे मिच्छत्तमहाजरो चेवं ॥ १२१६ ॥ यथा ज्वरगृहीतस्य कस्यापि कथमपि ज्वरः खयमेवापति, कस्यचित्तु भेषजोपयोगात् , अपरस्य तु नापगच्छति । एवं मिध्यात्वमहाज्वरोऽपि कस्यापि ग्रन्थिभेदादिक्रमेण स्वयमेवापगच्छति, कस्यचित्तु गुरुवचनभेषजोपयोगात् , अन्यस्य तु नापैति । तदेवमेतास्तिस्रोऽपि गतयो भव्यस्य भवन्ति, अभव्यस्य त्वेकैव तृतीया गतिरिति ॥ १२१६ ॥ Bes ॥५३९॥ उपदेशतः स्वयं वा लभते पथं कश्चिद् न लभते कश्चित् । प्रन्थिस्थान प्राप्तः सम्यक्त्वपथं तथा भव्यः ॥ १२१५ ॥ २ भैषज्येन स्वयं वा नश्यति ज्वरको न नश्यति कश्चित् । भन्यस्य प्रन्थिदेशे मिथ्यात्वमहाज्वरश्चैवम् ॥ १२॥ Jan Education Internation For Personal and Private Use Only B ww.jaineltrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy