________________
विशेषा ०
॥५४१॥
Jain Educationa Internation
अर्हदादिविभूतिमतिशयवतीं दृष्ट्वा 'धर्मादेवंभूतः सत्कारः, देवत्वराज्यादयो वा प्राप्यन्ते' इत्येवमुत्पन्नबुद्धेरभव्यस्यापि ग्रन्थिस्थानं प्राप्तस्य ' तद्विभूतिनिमित्तम्' इति शेषः देवत्व- नरेन्द्रत्व- सौभाग्य-रूप- बलादिलक्षणेनाऽन्येन वा प्रयोजनेन सर्वथा निर्वाश्रद्धानरहितस्याsभव्यस्यापि कष्टानुष्ठानं किञ्चिदङ्गीकुर्वतोऽज्ञानरूपस्य श्रुतसामायिकमात्रस्य लाभो भवेत्, तस्याऽप्येकादशाङ्गपाठानुज्ञानात् । सम्यक्त्वादिलाभस्तु तस्य न भवत्येव, अभव्यत्वहानिप्रसङ्गादिति ॥ १२१९ ॥
अथ यदुक्तम्- 'अब्बेण तिपुंजं मिच्छत्तं कुणई' इत्यादि । तद्विवरणमाह
haणादरनिव्वालिया निव्वलिया य जह कोदवा तिविहा। तह मिच्छत्तं तिविहं परिणामवसेण सो कुणइ ॥ १२२० ॥ यथा परिकर्म्यमाणाः कोद्रवास्त्रिविधा भवन्ति, तद्यथा - मदना:- अशुद्धा एवेत्यर्थः, तथा, 'दरनिव्वलिय त्ति ' ईषनिर्वलिताः शुद्धाशुद्धस्वरूपा इत्यर्थः, 'निव्वलिया यत्ति' निर्वलिताय शुद्धा एवेत्यर्थः, तथाऽपूर्वकरणलक्षणपरिणामवशेन शुद्धाशुद्धमिश्रभेदाद् मिथ्यात्वं जीवस्त्रिविधं करोतीति ।। १२२० ॥
अथ जल-वस्त्रदृष्टान्तौ युगपदाह
जैह वेह किंचि मलिणं दरसुद्धं सुद्धमंबु वत्थं च । एवं परिणामवसा करेइ सो दंसणं तिविहं ॥ १२२१ ॥ यथा वा किश्चिदम्बु जलं, वस्त्रं च मलिनं कलुषं भवति- शोध्यमानमपि न शुध्यति, किञ्चित्तु दरशुद्धमीषद् विशुद्धं भवति, अपरं तु शुद्धं भवति । एवमपूर्वकरणलक्षणपरिणामवशाद् दर्शनमोहनीयं कर्म जीवो मिथ्यात्व-मिश्र सम्यक्त्वभेदात् त्रिधा करोतीति । १२२१ ॥
ननूक्त इत्थं सम्यक्त्वलाभः, अथ देशविरत्यादिलाभः कथम् १, इत्याह
सम्मत्तम्मि उ लद्धे पलियपुहत्तेण सार्वओ होज्जा । चरणो-वसम-खयाणं सागर संखतरा होंति ॥ १२२२॥ यावत्यां कर्मस्थितौ सम्यक्त्वं लब्धं तन्मध्यात् परयोपमपृथक्त्वलक्षणस्थितिखण्डे क्षपिते श्रावको देशविरतो भवेत् । ततोऽपि संख्यातेषु सागरोपमेषु क्षपितेषु चारित्रमवाप्नोति । ततोऽपि संख्यातेषु सागरोपमेषु क्षपितेषूपशमश्रेणीं प्रतिपद्यते, ततोऽपि संख्यातेषु १ गाथा १२१८ । २ मदना दरनिर्वलिता निर्वलिता यथा कोद्रवास्त्रिविधाः । तथा मिध्यात्वं त्रिविधं परिणामवशेन स करोति ॥ १२२० ॥
३ यथा वेह किञ्चिद् मलिनं दरशुद्धमम्बु वनं च । एवं परिणामवशात् करोति स दर्शनं त्रिविधम् ॥ १२२ ॥
४ सम्यक्त्वे तु लब्धे पल्यपृथक्त्वेन धावको भवेत् । चरणोपशम-क्षयाणां सागराः संख्या अन्तरं भवन्ति । १२२२ ॥ ५ क. ग. 'बगो हो' ।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥५४१ ॥
www.jainelibrary.org