________________
kedIDEOS
PCOSHI
ed कषायाः। ते च बहुवचननिर्देशाच्चत्वारः क्रोधादयो गम्यन्ते । एवं देशविरत्याद्युत्तरोत्तरगुणघातित्वाद् द्वितीय-तृतीय-चतुर्थत्वेन, विशेषा० कपायशब्दादिवाच्यत्वेन च द्वितीयादयोऽपि मताः संमता इति ॥ १२२८ ॥ १२२९ ॥
बृहद्वृत्तिः। ॥५४४॥
'भवसिद्धीया वि' इत्येतद् व्याख्यानयतिभवसिद्धिया वि भणिए नियमा न लहंति तयमभव्या वि । अविसद्देण व गहिया परित्तसंसारियाईया॥१२३०॥
'भवसिद्धिकाः' इत्युक्तेऽपिशब्दात् 'अभव्यास्तु नैव लभन्ते' इत्यवगम्यत एव । अथवा, अपिशब्दात् 'परीत्तसंसाराद-EN योऽपि न लभन्ते' इति गम्यते ॥ इति गाथाचतुष्टयार्थः ।। उक्ताः सम्यक्त्वस्याऽऽवरणभूताः कषायाः ।। १२३०॥ ___ अथ देशविरत्यावरणभूतांस्तानाह___ बीयकसायाणुदए अप्पच्चक्खाणनामधेयाणं । सम्मईसणलंभं विरयाविरई न उ लहति ॥ १२३१॥
सर्वप्रत्याख्यानं देशप्रत्याख्यानं च येषामुदये न लभ्यते, ते प्रत्याख्यानाः; अकारस्य सर्वप्रतिषेधवचनत्वात् , अप्रत्याख्याना नामधेयं येषां तेऽप्रत्याख्याननामधेयास्तेषामप्रत्याख्याननामधेयानाम् । द्वितीयस्य देशविरतिगुणस्याऽऽवारकत्वाद् द्वितीयाः, ते च ते कपायाश्च द्वितीयकषायास्तेषां द्वितीयकषायाणामुदये 'भव्याः सम्यग्दर्शनलाभं लभन्ते' इति वाक्यशेषः । अयं च वाक्यशेषो 'विरयाविरई न उ लहति' इत्यत्र तुशब्दोपादानाल्लभ्यते, एषामुदये भव्याः सम्यग्दर्शनलाभं लभन्ते, विरताविरतिं देशविरतिं पुनर्न लभन्त इति वाक्यसंगतेरिति । विरतं चाऽविरतिश्च यस्यां निवृत्तौ सा विरताविरतिस्ताम् ॥ इति नियुक्तिगाथार्थः ॥ १२३१॥
भाष्यम्
सव्वं देसो व जओ पच्चक्खाणं न जेसिमुदएणं । ते अप्पचक्खाणा सव्वनिसेहे मओऽकारो ॥१२३२॥
सम्मइंसणलंभ लभंति भविय त्ति वक्कसेसोऽयं । विरयाविरइविसेसणतुसहसंलक्खिओऽयं च ॥१२३३॥ १ गाथा १२२६ । २ भवसिद्धिका अपि भणिते नियमाद् न लभन्ते तदभव्या भपि । अपिशब्देन वा गृहीताः परीत्तसंसारादिकाः ॥ १२३० ।। द्वितीयकषायाणामुदयेऽप्रत्याख्याननामधेयानाम् । सम्यग्दर्शनलाभं विरताविरतिं न तु लभन्ते ॥१२॥
॥५४४॥ ५ सर्व देशो वा यतः प्रत्याख्यानं न येषामुदयेन । तेऽप्रत्याख्यानाः सर्वनिषेधे मतोऽकारः ॥ १२॥२॥ सम्यग्दर्शनलाभ लभन्ते भव्या इति वाक्यशेषोऽयम् । विरताविरतिविशेषणतुशब्दसंलक्षितोऽयं च ॥ १२३३॥
Jan Edu
n temat
For Personal and Private Use Only