SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ वृहद्वात्तिः कुमार 80 गतार्थे एव ।। १२३२ ॥ १२३३॥ विशेषा० अथ तृतीयस्य सर्वविरतिगुणस्याऽऽवारकांस्तृतीयकषायानाह तेइयकसायाणुदए पच्चक्खाणावरणनामधेजाणं । देसे-कदेसविरइं चरित्तलंभं न उ लहंति ॥ १२३४॥ ॥५४५॥ सर्वविरतिलक्षणतृतीयगुणघातित्वात् , क्षपणक्रमाद् वा तृतीयाश्च ते कषायाश्च तृतीयकषायाः क्रोधादयश्चत्वारस्तेषामुदये । कथंभूतानाम् ?, आकृण्वन्तीत्यावरणाः, प्रत्याख्यानं सर्वविरतिलक्षणं, तस्याऽऽवरणाः प्रत्याख्यानावरणाः, एतदेव नामधेयं येषां ते प्रत्याख्यानावरणनामधेयाः, तेषाम् । आह-ननु 'अप्रत्याख्याननामधेयानामुदये सर्वथा प्रत्याख्यानं नास्ति' इत्युक्तम् , नत्रा प्रतिषि द्धत्वात् । इहाऽपि चावरणशब्देन प्रत्याख्यानस्य सर्वस्यापि निषेधो गम्यते, इति क एषां प्रतिविशेषः ? इति । अत्रोच्यते-तत्र नञ् सनिषेध उक्तः, इह त्वाङो मर्यादे-षदर्थत्वात् , आ- सर्वविरतिप्रत्याख्यानमर्यादया, अथवा, ईषत्- सावद्ययोगानुमतिमात्रविरतिरूपं प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणा इति व्युत्पत्तेः सर्वविरतिरूपप्रत्याख्याननिषेधार्थ एवायं वर्तते, न देशविरतिप्रत्याख्याननिषेध आवरणशब्दः, तथा चाह- देशश्चैकदेशश्च देशै-कदेशौ तत्र देशः स्थूलप्राणातिपातादिः, एकदेशस्तु तस्यैव दृश्यवनस्पतिकायाद्यतिपातः, तयोर्देशै-कदेशयोर्विरतिनिवृत्तिस्तां 'लभन्ते' इति वाक्यशेषः । अत्राप्येष वाक्यशेषः 'चरित्तलंभं न उ लहंति' इत्यत्र तुशब्दोपादानादेव लभ्यते । चरन्त्यनिन्दितमनेनेति चारित्रम् , अष्टविधकर्मचयरिक्तीकरणाद् वा चारित्रम्, सर्वविरतिक्रियेत्यर्थः, तस्य लाभस्तम् , एपामुदये न लभन्ते, देशै-कदेशविरतिं पुनर्लभन्ते ॥ इति नियुक्तिगाथार्थः ॥ १२३४ ।। भाष्यम् सव्वं पच्चक्खाणं वरेंति ते जं न देसमेएणं । पञ्चक्खाणावरणा आमज्जादी-सदत्थेसु ॥ १२३५ ॥ यद् यस्मात् सर्वविरतिरूपं सर्वं प्रत्याख्यानमावृण्वन्ति ते तृतीयकषायाः, न देशप्रत्याख्यानम् , एतेन कारणेन प्रत्याख्यानाBR वरणा अमी उच्यन्ते, 'न तु प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणा इति व्युत्पत्तेः सर्वमपि प्रत्याख्यानमेषामुदये न भवति' इति गम्यते । अयं तु विशेषः कुतः, यत् सर्वविरतिप्रत्याख्यानमावृण्वण्त्यमी, न देशप्रत्याख्यानम् ?, इत्याशङ्कयाह- 'आ मज्जादी-सद 10॥५४५॥ १ घ.छ. 'तीयाना' । २ तृतीयकपायाणामुदये प्रत्याख्यानावरणनामधेयानाम् । देशै-कदेशविरतिं चारित्रलाभं न तु लभन्ते ॥ १२३४ ॥ ३ सर्व प्रत्याख्यानमावृण्वन्ति ते यद् न देशमेतेन । प्रत्याख्यानावरणा आ मर्यादे-पदर्थयोः ॥ १२३५ ॥ Jan Education Internatio For Personal and Private Use Only Palww.jaineltrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy