________________
विशेषा.
बृहद्वत्तिः ।
॥५४३॥
CHAR
प्रथमिल्लुकानां संयोजनाकषायाणामुदये नियमात् सम्यग्दर्शनलाभं भवसिद्धिका अपि न लभन्ते, किमुताऽभव्याः १ । इत्यक्षरयोजना | भावार्थस्त्वयम्- प्रथमा एवं देशीवचनतः प्रथमिल्लुकास्तेषां प्रथमिल्लुकानामनन्तानुबन्धिक्रोध-मान-माया-लोभानामि- त्यर्थः । प्राथम्यं चैषां सम्यक्त्वाख्यप्रथमगुणविघातित्वात् , क्षपणक्रमाद् वेति । उदये विपाकानुभवे सति । नियमाद् नियमेन, अस्य व्यवहितः संबन्धः, स च दर्शित एव । किंविशिष्टानां प्रथमिल्लुकानाम् ?, इत्याह- कर्मणा, तत्फलभूतसंसारेण वा सह संयोजयन्तीति संयोजनास्ते च ते कषायाश्चेति संयोजनकषायाः, दीर्घत्वं प्राकृतत्वात् । अथवा, संयोजनाहेतवः कषायाः संयोजनाकषायास्तेषामुदये नियमात् सम्यगविपरीतं दर्शनं सम्यग्दर्शनं सम्यक्त्वं तस्य लाभस्तम् । भवे सिद्धिर्येषां ते भवसिद्धिकाः । ननु सर्वेषामपि सिद्धिर्भव एव कस्मिंश्चिद् भवेत् , इति किमनेन व्यवच्छिद्यते । सत्यम् , किन्त्विह व्याख्यानात् तद्भव एवं भवो गृह्यते, तद्भवसिद्धिका इत्यर्थः, तेऽपि न लभन्ते, किमुताऽभव्याः ॥ इति नियुक्तिगाथार्थः ॥ १२२६ ।।
भाष्यम्
खवणं पडुच्च पढमा पढमगुणविघाइणो त्ति वा जम्हा । संजोयणाकसाया भवादिसंजोयणाउ त्ति॥१२२७॥ गताथैव ॥ १२२७ ॥ कषायशब्दार्थमाह
कैम्म कसं भवो वा कसमाओ सिं जओ कसाया तो। कसमाययंति व जओ गमयंति कसं कसाय त्ति॥१२२८॥ आओ व उवादाणं तेण कसाया जओ कसस्साया। चत्तारि बहुवयणओ एवं बिइयादओ वि मया ॥१२२९॥
कर्षन्ति परस्परं हिंसन्ति प्राणिनोऽस्मिन्निति कर्ष कर्म, भवो वा; अथवा, कृष्यन्ते शारीर-मानसदुःखलौघृष्यन्ते प्राणिनोऽस्मिन्निति कर्ष कमैंव, भव एव वा; यतो यस्मात् कषं कर्म, कषो वा भव आयो लाभो येषां ततस्ते कषायाः । अथवा, कषमाययन्ति यतः, अतः कषायाः- कर्ष गमयन्तीत्यर्थः । अथवा, आय उपादानं हेतुरित्यनर्थान्तरम् , यस्मात् कपस्याऽऽया हेतवस्तेन १ क. ग. 'व गृ' । २ क्षपणं प्रतीत्य प्रथमाः प्रथमगुणविघातिन इति वा यस्मात् । संयोजनाकषाया भवादिसंयोजनादिति ॥ १२२७॥
३ कर्म कषं भवो वा कषमाय एषां यतो कषायास्ततः । कपमाययन्ति वा यतो गमयन्ति कषं कषाया इति ॥ १२२८ ॥ आयो वोपादानं तेन कषाया यतः कषस्यायाः । चत्वारो बहुवचनत एवं द्वितीयादयोऽपि मताः ॥ १२२९ ।।
PRAKASH
॥५४३॥