Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
Saralace
॥५३५॥
सिद्धप्रकारेण प्रवृत्तं यथाप्रवृत्त, क्रियते कर्मक्षपणमनेनेति करणं सर्वत्र जीवपरिणाम एवोच्यते, यथावृत्तं च तत्करणं च यथाप्रवृत्तकरणम् , एवमुत्तरत्रापि करणशब्देन कर्मधारयः, अनादिकालात् कर्मक्षपणप्रवृत्तोऽध्यवसायविशेषो यथाप्रवृत्तकरणमित्यर्थः । अप्राप्तपूर्वमपूर्वम् , स्थितिघात-रसघाताद्यपूर्वार्थनिर्वर्तकं वापूर्वम् । निवर्तनशीलं निवर्ति, न निवर्ति- अनिवर्ति- आ सम्यग्दर्शनलाभाद् न निवतत इत्यर्थः । एतानि त्रीण्यपि यथोत्तरं विशुद्ध-विशुद्धतर-विशुद्धतमाध्यवसायरूपाणि भव्यानां करणानि भवन्ति । इतरेषां त्वभव्यानां प्रथममेव यथाप्रवृत्तकरणं भवति, नेतरे द्वे इति ।। १२०२॥
एतेषां करणानां मध्ये कस्यामवस्थायां किं भवति ?, इत्याह
जा गंठी ता पढमं गंठि समइच्छओ अपुव्वं तु । अनियट्टीकरणं पुण सम्मत्तपुरक्खडे जीवे ॥१२०३॥
अनादिकालादारभ्य यावद् ग्रन्थिस्थानं तावत् प्रथमं यथाप्रवृत्तकरणं भवति, कर्मक्षपणनिबन्धनस्याऽध्यवसायमात्रस्य सर्वदैव भावात् , अष्टानां कर्मप्रकृतीनामुदयप्राप्तानां सर्वदैव क्षपणादिति । ग्रन्थि तु समतिक्रामतो भिन्दानस्याऽपूर्वकरणं भवति, प्राक्तनाद् विशुद्धतराध्यवसायरूपेण तेनैव ग्रन्थेर्मेदादिति । अनिवर्तिकरणं पुनः सम्यक्त्वं पुरस्कृतमभिमुखं यस्याऽसौ समक्त्वपुरस्कृतोऽभिमुखसम्यक्त्व इत्यर्थः, तत्रैवंभूते जीवे भवति । तत एव विशुद्धतमाध्यवसायरूपादनन्तरं सम्यक्त्वलाभात् ।। इति गाथादशकार्थः॥१२०३।।
अथेदमेव करणत्रयमाश्रित्य सामायिकलाभदृष्टान्तानाहपेल्लग-गिरिसरिउवल-पिवीलिया-पुरिस-पह-जरग्गहिया । कोद्दव-जल-वत्थाणि य सामाइयलाभदिटुंता ॥१२०४॥
पल्लको धान्याधारभूत इहैव प्रतीतः, गिरिसरिदुपलः पर्वतनदीपाषाणः, पिपीलिकाः कीटिकाः, पुरुषाः प्रतीताः, पन्थानो मार्गाः, ज्वरगृहीताः समुत्पन्नज्वररोगाः, कोद्रवाः, जलानि, वस्त्राणि । एतेषां पल्लकादीनां संबन्धिनो नव सामायिकलाभदृष्टान्ता वक्तव्याः ॥ इति नियुक्तिगाथार्थः॥ १२०४ ।।
अथ पल्लकदृष्टान्तमधिकृत्याहजो पल्लेऽतिमहल्ले धण्णं पक्खिवइ थोवथोवयरं । सोहेइ बहुबहुतरं झिजइ थोवेण कालेण ॥ १२०५ ॥
यावद् प्रन्थिसावत् प्रथमं प्रन्थि समतिगच्छतोऽपूर्व तु । अनिवर्तिकरणं पुनः पुरस्कृतसम्यक्त्वे जीवे ॥ १२०३ ॥ २ पल्लक-गिरिसरिदुपल-पिपीलिका-पुरुष-पथ-ज्वरगृहीताः । कोद्रव-जल-वस्त्राणि च सामायिकलाभदृष्टान्ताः ॥ १२०४ ॥ ३ क. ग. 'संपन्न । ४ यः पल्येऽतिमहति धान्य प्रक्षिपति सोकस्तोकतरम् । शोधयति बहुबहुतरं क्षीयते स्तोकेन कालेन ॥ १२०५॥
॥५३५॥
For Persone el
Loading... Page Navigation 1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202