SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ विशेषा० Saralace ॥५३५॥ सिद्धप्रकारेण प्रवृत्तं यथाप्रवृत्त, क्रियते कर्मक्षपणमनेनेति करणं सर्वत्र जीवपरिणाम एवोच्यते, यथावृत्तं च तत्करणं च यथाप्रवृत्तकरणम् , एवमुत्तरत्रापि करणशब्देन कर्मधारयः, अनादिकालात् कर्मक्षपणप्रवृत्तोऽध्यवसायविशेषो यथाप्रवृत्तकरणमित्यर्थः । अप्राप्तपूर्वमपूर्वम् , स्थितिघात-रसघाताद्यपूर्वार्थनिर्वर्तकं वापूर्वम् । निवर्तनशीलं निवर्ति, न निवर्ति- अनिवर्ति- आ सम्यग्दर्शनलाभाद् न निवतत इत्यर्थः । एतानि त्रीण्यपि यथोत्तरं विशुद्ध-विशुद्धतर-विशुद्धतमाध्यवसायरूपाणि भव्यानां करणानि भवन्ति । इतरेषां त्वभव्यानां प्रथममेव यथाप्रवृत्तकरणं भवति, नेतरे द्वे इति ।। १२०२॥ एतेषां करणानां मध्ये कस्यामवस्थायां किं भवति ?, इत्याह जा गंठी ता पढमं गंठि समइच्छओ अपुव्वं तु । अनियट्टीकरणं पुण सम्मत्तपुरक्खडे जीवे ॥१२०३॥ अनादिकालादारभ्य यावद् ग्रन्थिस्थानं तावत् प्रथमं यथाप्रवृत्तकरणं भवति, कर्मक्षपणनिबन्धनस्याऽध्यवसायमात्रस्य सर्वदैव भावात् , अष्टानां कर्मप्रकृतीनामुदयप्राप्तानां सर्वदैव क्षपणादिति । ग्रन्थि तु समतिक्रामतो भिन्दानस्याऽपूर्वकरणं भवति, प्राक्तनाद् विशुद्धतराध्यवसायरूपेण तेनैव ग्रन्थेर्मेदादिति । अनिवर्तिकरणं पुनः सम्यक्त्वं पुरस्कृतमभिमुखं यस्याऽसौ समक्त्वपुरस्कृतोऽभिमुखसम्यक्त्व इत्यर्थः, तत्रैवंभूते जीवे भवति । तत एव विशुद्धतमाध्यवसायरूपादनन्तरं सम्यक्त्वलाभात् ।। इति गाथादशकार्थः॥१२०३।। अथेदमेव करणत्रयमाश्रित्य सामायिकलाभदृष्टान्तानाहपेल्लग-गिरिसरिउवल-पिवीलिया-पुरिस-पह-जरग्गहिया । कोद्दव-जल-वत्थाणि य सामाइयलाभदिटुंता ॥१२०४॥ पल्लको धान्याधारभूत इहैव प्रतीतः, गिरिसरिदुपलः पर्वतनदीपाषाणः, पिपीलिकाः कीटिकाः, पुरुषाः प्रतीताः, पन्थानो मार्गाः, ज्वरगृहीताः समुत्पन्नज्वररोगाः, कोद्रवाः, जलानि, वस्त्राणि । एतेषां पल्लकादीनां संबन्धिनो नव सामायिकलाभदृष्टान्ता वक्तव्याः ॥ इति नियुक्तिगाथार्थः॥ १२०४ ।। अथ पल्लकदृष्टान्तमधिकृत्याहजो पल्लेऽतिमहल्ले धण्णं पक्खिवइ थोवथोवयरं । सोहेइ बहुबहुतरं झिजइ थोवेण कालेण ॥ १२०५ ॥ यावद् प्रन्थिसावत् प्रथमं प्रन्थि समतिगच्छतोऽपूर्व तु । अनिवर्तिकरणं पुनः पुरस्कृतसम्यक्त्वे जीवे ॥ १२०३ ॥ २ पल्लक-गिरिसरिदुपल-पिपीलिका-पुरुष-पथ-ज्वरगृहीताः । कोद्रव-जल-वस्त्राणि च सामायिकलाभदृष्टान्ताः ॥ १२०४ ॥ ३ क. ग. 'संपन्न । ४ यः पल्येऽतिमहति धान्य प्रक्षिपति सोकस्तोकतरम् । शोधयति बहुबहुतरं क्षीयते स्तोकेन कालेन ॥ १२०५॥ ॥५३५॥ For Persone el
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy