SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ विशेषा. बृहद ॥५३४|| पाएण पुव्वसेवा परिमउई साहणम्मि गुरुतरिया । होइ महाविज्जाए किरिया पायं सविग्धा य ॥११९९॥ तह कम्मठिइखवणे परिमउई मोक्खसाणे गुरुई । इह दसणाइकिरिया दुलहा पायं सविग्घा य॥१२००॥ महाविद्यासाधनवदेतद् द्रष्टव्यम्- यथा महाविद्यायाः सिसाधयिपितायाः प्रायः पूर्वसेवा नातिगुर्वी, किन्तु परिमृद्वी भवति तत्साधनकाले तु या क्रिया सा गुरुतरातिगरीयसी भवति, सविना च प्रायः संजायते तथा ग्रन्थिभेदात पूर्व कर्मस्थितिक्षपणे या यथाप्रवृत्तकरणक्रिया सा नातिगुर्वी, किन्तु परिमृद्दी; या पुनर्गन्धिभेदादारभ्य मोक्षसाधने सम्यग्दर्शनज्ञानसहितचारित्रक्रिया, सातीव गुर्वी, दुष्पापा, सविघ्ना च भवति । न चैतां सम्यग्दर्शन-ज्ञानान्वितचारित्रक्रियामन्तरेण कस्यापि कदाचिदपि मोक्षो भवति । इति कथमुच्यते- 'सम्यक्त्वादिगुणविकलोऽपि सर्व कर्म क्षपयित्वा मोक्षमासादयतु जीवः' इति ? ॥११९९ ॥ १२०० ॥ प्रतिविधानान्तरमाहअहव जओ च्चिय सुबहुं खवियं तो निग्गुणो नसेसं पि। स खवेइ जओ लभए सम्मत्त-सुयाइगुणलाभं ॥१२०१॥ अथवा, यत एव गुणवैकल्यावस्थायां सुबद्दनेन कर्म क्षपितम् , अत एव शेषमपि कर्म निर्गुणः सन् न क्षपयति । कुतः १, इत्याह- यतः क्षपितबहुकर्मत्वादपचितबहुदोषो ग्रन्थिभेदादूर्ध्व सम्यक्त्वादिगुणलाभ लभते, इति कथं तदा निर्गुणः स्यात् । अयमभिप्रायः-न हि केनाप्यध्याहृत्यापेक्षिताः सम्यक्त्वादिगुणा भवन्ति, येन भवता पोच्यते- 'किं सम्यक्त्वादिगुणैर्मोक्षहेतुतया कल्पितैः?' | इति । क्षपितबहुक्लिष्टकर्मणामनपेक्षिता अपि स्वयमेव प्रादुर्भवन्ति गुणाः, इति कथं निर्गुण एव शेषमपि क्षपयतु ? इति ॥ १२०१॥ ग्रन्थिभेदं च जीवो यथाप्रवृत्तादिकरणक्रमेण विदधाति; तत्र कानि, कियन्ति, कस्य चैतानि करणानि भवन्ति ?, इत्याह- . कॅरणं अहापवत्तं अपुव्वमनियट्टियमेव भव्वाणं । इयरेसिं पढम चिय भन्नइ करणं ति परिणामो ॥१२०२॥ इह भव्यानां त्रीणि करणानि भवन्ति, तद्यथा- यथाप्रवृत्तकरणम् , अपूर्वकरणम् , अनिवर्तिकरणं चेति । तत्र येनाऽनादिसं । प्रायेण पूर्वसेवा परिमृद्वी साधने गुरुतरा । भवति महाविद्यायां क्रिया प्रायः सविता च ॥ ११९९ ॥ तथा कर्मस्थितिक्षपणे परिमृती मोक्षसाधने गुर्वी । इह दर्शनादिक्रिया दुर्लभा प्रायः सविता च ॥ १२०० ॥२ क. ग. 'प्राप्या स। ३ अथवा यत एष सुबहु क्षपितं ततो निर्गुणो न शेषमपि । स क्षपयति यतो लभते सम्यक्त्व-श्रुतादिगुणलाभम् ॥ १२०५॥ • करणं यथाप्रवृत्तमपूर्वमनिवर्तिकमेव भव्यानाम् । इतरेषां प्रथममेव भण्यते करणमिति परिणामः ॥ १२०२ ॥ ||॥५३४॥ Jan Education inten For Personal and Private Use Only www.jainelibrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy