________________
विशेषा० ॥५३३॥
कर्कशोऽतिपरुषः । धनः सर्वतो निबिडः । स चाद्रोऽपि स्यादित्याह- रूढः शुष्कः । गूढः कथमप्युद्वेष्टयितुमशक्योऽतिप्रचयमापन्नः। यथैवंभूतो द्रव्यग्रन्थिर्भेदो भवति, एवं राग-द्वेषोदयपरिणामोऽप्यसौ दुर्भदो भवति । अतो ग्रन्थिरिव ग्रन्थिय॑पदिश्यत इति ॥११९५॥
ततः किम् ?, इत्याह
भिन्नम्मि तम्मि लाभो सम्मत्ताईण मोक्खहेऊणं । सो य दुलभो परिस्सम-चित्तविघायाइविग्घेहिं ॥११९६॥
तस्मिन् ग्रन्थौ भिन्ने क्षपयित्वा समतिक्रान्ते मोक्षहेतुभूतानां सम्यक्त्वादीनां लाभो भवति । स च ग्रन्थिभेदो मनोविघात-परिश्रमादिविघ्नैरतिदुर्लभोऽतिशयेन दुष्करः । तस्य हि जीवस्य ग्रन्थिभेदं चिकीर्षाविद्यासाधकस्येव विभीषिकादिभ्यो मनोविघातो मनःक्षोभो भवतिः प्रचुरदुर्जयकर्मशत्रुसंघातजयाच महासमरगतसुभटस्येव परिश्रमश्चातिशयेन संजायत इति ॥ ११९६॥ एतदेवाहसो तत्थ परिस्सम्मइ घोरमहासमरनिग्गयाइ व्य । विज्जा य सिद्धिकाले जह बहुविग्घा तहा सो वि॥११९७॥
स जीवस्तत्र ग्रन्थिभेदे प्रवृत्तो घोरमहासमरशिरसि दुर्जयापाकृतानेकशत्रुगणः सुभट इव, आदिशब्दाद् महासमुद्रादितारकवत् , परिश्राम्यति । यथा च सिद्धिकाले विद्या बहुविघ्ना संपद्यते- साधकस्योपसगैर्मनाक्षोभं जनयति, तथा सोऽपि ग्रन्थिभेद इति ॥११९७॥
अथ प्रेरकः पाहकैम्मठिई सुदीहा खविया जइ निग्गुणेण, सेसं पि । स खवेउ निग्गुणो चिय किं पुणो दसणाईहिं॥११९८॥
यदि ग्रन्थिभेदात् पूर्व सम्यक्त्वादिगुणविकलेनैवाऽनेन जन्तुना सुदीर्घा द्राघीयसी कर्मस्थितिः क्षपिता, तर्हि शेषमपि कर्माऽसौ सम्यक्त्वादिगुणशून्य एव क्षपयतु, ततो मोक्षमप्येवमेवाऽऽसादयतु, किं पुनः सम्यग्दर्शनादिगुणैस्तद्धेतुभिर्विकल्पितैः ? इति ॥११९८॥ अत्रोत्तरमाह
१ भिन्न तस्मिल्लाभः सम्यक्त्वादीनां मोक्षहेतूनाम् । स च दुर्लभः परिश्रम-चित्तविधातादिविनैः ॥ १९ ॥ २ स तत्र परिश्राम्यति घोरमहासमरनिर्गतादिरिव । विद्या च सिद्धिकाले यथा बहुविना तथा सोऽपि ॥१९॥ ३ कर्मस्थितिः सुदीर्घा क्षपिता यदि निर्गुणेन, शेषमपि । स झपयतु निर्गुण एवं किं पुनदर्शनादिभिः ॥११९८ ॥ ४ क. ग. 'भिः क'।
॥५३३॥
Jan Education International
For Don Pe Use Only
www.janeltrary.org