________________
HOS
विशेषा ॥५३२॥
तिक एकस्मिन्नायुषि भज विकल्पयैतानि- कस्यचित् किञ्चिद् भवति, कस्यचिद् नेति । तत्र चानुत्तरसुरस्य सम्यक्त्व-श्रुतसामायिके
म्यक्त्व-श्रुतसामायिक वृहद्वत्तिः। पूर्वप्रतिपन्ने भवतः, न शेषमित्युक्तमेवेति । ज्ञानावरणादिसर्वजघन्यस्थितिकोऽपि सूक्ष्मसंपरायादिर्न लभते- नैतानि प्रतिपद्यते, येन यस्मात् सम्यक्त्व-श्रुत-सर्वविरतिसामायिकानां पूर्वप्रतिपन्नोऽसौ वर्तते, तस्मात् पुनरपि न लभते, लब्धस्य पुनर्लाभासंभवादिति । आयुषस्तु क्षुल्लकभवग्रहणजघन्यस्थितिको न पूर्वप्रतिपन्नः, नापि प्रतिपद्यमानकः, इति पाक् सर्व भावितमेव ।। इति गाथाषट्कार्थः॥ ११९१ ॥ ११९२ ॥
अथ सम्यक्त्वादीनां लाभकारणमाह
सत्तण्हं पयडीणं अभितरओ उ कोडकोडीए । काऊण सागराणं जइ लहइ चइण्हमन्नयरं ॥ ११९३ ॥
सप्तानामायुर्वर्जानां कर्मप्रकृतीनां स्थितिमङ्गीकृत्य यान्त्या सागरोपमाणां कोटाकोटी तस्या अभ्यन्तरत एव कृत्वा 'आत्मानम्' | इति गम्यते, यदि लभते- चतुर्णामन्यतरत् सामायिक लभते, तदेत्थं लभते नान्यथेत्यर्थः ॥ इति गाथार्थः॥ ११९३ ॥
भाष्यम्
अंतिमकोडाकोडीए सव्वकम्माणमाउवजाणं । पलियासंखिजइमे भागे खीणे भवइ गंठी ॥ ११९४ ॥
यदा किल क्षप्यमाणानामायुर्वर्जसप्तकर्मणां स्थितेरन्त्या सागरोपमकोटाकोटी अवतिष्ठते, तदा तन्मध्यादपि पल्योपमासंख्येयभागे क्षपिते ग्रन्थिराविर्भवति ॥ ११९४ ॥
ग्रन्थिः किमुच्यते ?, इत्याह
गेंठि त्ति सुदुब्भेओ कक्खडघणरूढगूढगंठि व्व । जीवस्स कम्मजाणओ घणराग-दोसपरिणामो ॥११९५॥
ग्रन्थिरिति भण्यते । कः?, इत्याह- घनोऽतिनिबिडो राग-द्वेषोदयपरिणामः । कस्य ? । जीवस्य । कथंभूतः । कर्मजनित:कर्मविशेषप्रत्ययः । अयं च दुर्भेदो दुर्मोचो दुःक्षेपणीयो भवति । क इव । वल्कादारुविशेषस्य संबन्धी कर्कशघनरूढगूढग्रन्धिरिव । , सप्तानो प्रकृतीनामभ्यन्तरतस्तु कोटाकोव्याः । कृत्वा सागराणां यदि लभते चतुर्णामन्यतरत् ॥ १५॥ २ घ. छ. 'कंत'।
॥५३२॥ ३ अन्तिमकोटाकोत्या सर्वकर्मणामायुर्वर्जानाम् । पल्यासंख्येये भागे क्षीणे भवति प्रन्धिः ॥ १९ ॥ ४ क. ग. 'समस्तक' । ५ प्रन्धिरिति सुदुर्भेदः कर्कशधनरूदगूदप्रन्थिरिव । जीवस्य कर्मजनितो धनराग-दोषपरिणामः ॥ ११९५॥
For Peso
Private Use Only