________________
विशेषा
बृहद्भुतिः ।
॥५३॥
क्लेशौ नारक-देवावुत्कृष्टस्थितिकं मोहनीयं बद्ध्या तिर्यसूत्पद्येते, तदाप्यायुषो जघन्यस्थितिर्न संभवति, क्षुल्लकभवग्रहणलक्षणतज्जघन्यस्थितिषु जीवेषु नारक-देवानामनुत्पादादिति ।
'मोहविवज्जुक्कोसयेत्यादि' यदा तु मोहनीयं वर्जयित्वा शेषस्य ज्ञानावरणाद्यन्यतरस्य कर्मण उत्कृष्टा स्थितिबध्यते, तदा मोहनीयस्य, तथा, विवक्षितोत्कृष्टस्थितिकज्ञानावरणादिकर्मणः सकाशादन्यकर्मप्रकृतीनां चोत्कृष्टा वा, मध्यमा वा स्थितिलभ्यते, न तु जघन्या; तथाहि- यदा सर्वोत्कृष्टसंक्लेशे वर्तमान उत्कृष्टस्थितिकं ज्ञानावरणीयादिकं कर्म बध्नाति, तदा शेषाणां मोहादिकर्मणामुत्कृष्टा स्थितिर्भवतीत्यवगम्यत एव । यदा तु खपायोग्योत्कृष्टसंक्लेश उत्कृष्टस्थितीनि ज्ञानावरणादिकाणि वध्यन्ते, तदाऽसौ ज्ञानावरणादिकर्मोत्कृष्टस्थितिप्रायोग्यः संक्लेशो मोहनीयकर्मोत्कृष्टस्विसिनिबन्धनसंक्लेशापेक्षया मध्यम एव भवति; अतस्तत्र वर्तमानो मोहनीयं मध्यमस्थितिकं बनाति, इत्येदपि सुबोधमेव । दर्शनावरण-वेदनीयादिकर्मोत्कृष्टस्थितिनिबन्धनसंक्लेशापेक्षया त्वसावुत्कृष्टो वा स्यात् , मध्यमो वा; तत्रोत्कृष्टे तस्मिन् दर्शनावरणीयादिकर्माणि तीबरसान्युत्कृष्टस्थितीनि बध्यन्ते, मध्यमे तु तस्मिन् मध्यमस्थितीनि तानि बध्यन्ते, इत्येतदपि घटमानकं लक्ष्यते । जघन्या तु तत्स्थितिर्न संभवति । मोहनीय-दर्शनावरणीयादिकर्मणां हि जघन्याऽन्तर्मुहूर्तादिका स्थितिरुक्ता, तां चानिवृत्तिवादर-मूक्ष्मसंपरायावेव बनीतः, तौ च ज्ञानावरणादिकर्मोत्कृष्टस्थिति कदाचिदपि न निर्वतयतः, किन्तु मिथ्यादृष्टिरेवः इति न ज्ञानावरणाद्युत्कृष्टस्थितौ मोहनीय-दर्शनावरणादिजघन्यस्थितिसंभवः । किं सर्वथा न?, इत्याह| 'कासइ व जहणिया होज त्ति' कस्याऽप्यायुर्लक्षणस्य कर्मणो जघन्या स्थितिः स्यात् , यथोत्कृष्टस्थितिकं ज्ञानावरणादि कर्म बनतस्तिरश्चो मनुष्यस्य वा जघन्यक्षुल्लकभवग्रहणाऽऽयुर्वन्धः । इत्येवं तावद् यथावगतं तथा व्याख्यातमिदं गाथाद्वयम् , परमार्थ विह केवलिनः, बहुश्रुता वा विदन्तीति ।। ११८९ ।। ११९० ॥ एवं च सति किम् ?, इत्याह
सम्म-सुय-देस-सव्वब्बयाण सामाइयाणमेकं पि । उक्कोसठिई न लभइ भयाउए पुव्वलडाइं ॥११९१॥
सवजहण्णठिईउ वि न लभए जेण पुव्वपडिवन्नो। आउयजहण्णठिईओ न पवज्जंतो न पडिवन्नो॥११९२॥
सम्यक्त्व श्रुत-देशव्रत-सर्वव्रतलक्षणानां चतुर्णा सामायिकानामेकमप्युत्कृष्टकर्मस्थितिको जन्तुर्न लभते, पूर्वलब्धानि तूत्कृष्टस्थि१ क. ग. 'रणादि' । २ सम्यक् श्रुत-देश-सर्वत्रतानां सामायिकानामेकमपि । उत्कृष्टस्थितिर्न लभते भजाऽऽयुपि पूर्वलब्धानि ॥ १९ ॥
- सर्वजघन्यस्थितिकोऽपि न लभते येन पूर्वप्रतिपनः । आयुर्जघन्यस्थितिको न प्रपद्यमानो न प्रतिपक्षः ॥ ११९२ ॥
॥५३॥
Forsonal
Prese Only