________________
विशेषा०
॥५३०॥
आउस सागराइं तेत्तीस, अवरओ मुहत्तंतो । अट्ठ य नामा-गोए वेअणीए बारस मुहत्ता ॥११८८॥
नाम-गोत्रयोविंशतिः सागरोपमकोटाकोव्य उत्कृष्टा स्थितिः, मोहनीयस्य तु सप्ततिः, पाणां तु ज्ञानावरण दर्शनावरण-वेदनीया-ऽन्तरायाणां त्रिंशत् , आयुषस्तु त्रयस्त्रिंशत् सागरोपमाण्युत्कृष्टा स्थितिः । अवरतो जघन्यतः पुनर्मुहूर्तान्तः- ज्ञानावरण-दर्शनावरण-ऽऽयु-र्मोहनीया-ऽन्तरायलक्षणानां पञ्चानां कर्मप्रकृतीनामन्तर्मुहूर्त जघन्या स्थितिरित्यर्थः; नाम-गोत्रयोरष्टौ मुहूर्ताः, वेदनीयस्य तु द्वादश मुहूर्ता जघन्या स्थितिः ।
तत्र मोहनीयस्य जघन्यस्थितिबन्धकोऽनिवृत्तिबादरः, आयुषस्तु मिथ्यादृष्टयस्तिर्यग्-मनुष्याः, ज्ञानावरण-दर्शनावरण-वेदनीयनाम-गोत्रा-ऽन्तरायाणां तु सूक्ष्मसंपरायो जघन्यस्थितिबन्धकः कषायप्रत्यया चेह जघन्या स्थितिर्विवक्षिता, योगप्रत्ययों तूपशान्तमोहादीनां वेदनीयस्य सामयिक्यप्येषा स्यादिति । आह- किमेताः कर्मप्रकृतयो युगपदेवोत्कृष्टस्थितयो भवन्ति, आहोखिदेकस्या उत्कृष्टस्थितौ जातायां पश्चादन्या उत्कृष्टस्थितयो भवन्ति, अन्यथा वा कथञ्चित् ? । अत्रोच्यते- वैचित्र्यमत्र ॥ ११८७ ।। ११८८ ॥
किं पुनस्तत् ?, इत्याहमोहस्सुक्कोसाए ठिईए सेसाण छण्हमुक्कोसा। आउस्सुक्कोसा वा मज्झिमिया वा न उ जहण्णा ॥ ११८९ ॥ मोहविवज्जुक्कोसयठिईए मोहस्स सेसियाणं च । उक्कोस मज्झिमा वा कासइ व जहणिया होज्जा ॥११९०॥
मोहनीयस्योत्कृष्टायां स्थितौ बध्यमानायां शेषाणां ज्ञानावरण-दर्शनावरण-वेदनीय-नाम-गोत्रा-ऽन्तरायलक्षणानां षण्णां कर्मणामुत्कृष्दैव स्थितिर्भवति । उत्कृष्टसंक्लेशे हि मोहनीयस्योत्कृष्टा स्थितिबध्यते । तत्र वर्तमानो जन्तु नावरणादीनामप्युत्कृष्टां स्थिति बध्नातीति सुप्रतीतमेव । आयुषस्तु यदोत्कृष्टस्थितिकेन मोहनीयेन सहोत्कृष्टं नारकायुरपि बद्ध्वा सप्तमपृथिव्यामुत्पद्यते, तदा नारकायुराश्रित्योत्कृष्टा त्रयस्त्रिंशत्सागरोपमलक्षणा स्थितिलभ्यते । यदा तु षष्ठपृथिव्यादिपूत्पद्यते, तदा तस्यैव मध्यमा स्थितिलभ्यते, न तु जघन्या । एतावत्संक्लेशवतो नरक एवोत्पादात् , तत्र च क्षुल्लकभवग्रहणलक्षणाया आयुर्जघन्यस्थितेरसंभवात् । यदाऽप्युत्कृष्टसं
, आयुषः सागराखयस्त्रिंशत् , अवरतो मुहूर्तान्तः । अष्ट च नाम-गोत्रयौवेंदनीये द्वादश मुहूर्ताः ॥ ११८८॥ २ क. ग. 'या तेषूप' । ३ मोहस्थोत्कृष्टायां स्थिती शेषाणां पणामुस्कृष्टा । आयुष उत्कृष्टा वा मध्यमा वा न तु जघन्या ॥ १८९॥ मोहविवर्बोत्कृष्टस्थितौ मोहस्य शेषाणां च । उत्कृष्टा मध्यमा वा कस्यचिद् वा जघन्या भवेत् ॥१९॥४ क. ग. 'रणीयादी'।
॥५३०॥
Jan Education Internation
For Personal and Private Use Only
REPww.jaineltrary.org