________________
विशेषा०
बृहद्वृत्तिः ।
॥५२९॥
अत्र ग्रन्थगाम्भीर्यमालोक्य पौर्वापर्यमूढतां शिष्यस्याऽऽशङ्कमानः संक्षिप्य तात्पर्यमाह
निज्जुत्तिसमुत्थाणप्पसंगओ नाणतरुसमारोहो । वच्चइ य वक्खमाणा समयं जिणपवयणुप्पत्ती ॥ ११८५ ॥
कुतः पुरुषादियं सामायिकनियुक्तिः प्रसूता ?, इत्येवं सामायिकनियुक्तिसमुत्थानप्रसङ्गतो यस्तपो-नियम-ज्ञानवृक्षसमारोहः पाक् प्रस्तुतः, या च वक्ष्यमाणा जिनप्रवचनोत्पत्तिः, एतद्वितयमप्येवं सति समकं युगपद् ब्रजति- युगपत् समर्थयिष्यत इत्यर्थः ॥ इति गाथापञ्चकार्थः ॥११८५॥
सम्यक्त्वाद्यलाभकारणं तावदाह
अट्ठण्हं पयडीणं उक्कोसहिईए पवट्टमाणो उ। जीवोन लहइ सामाइयं चउण्हं पिएगयरं ॥ ११८६ ॥
अष्टानां ज्ञानावरणीयादिकर्मप्रकृतीनामुत्कृष्टस्थितौ वर्तमानो जीवो न लभते सामायिकम् । किंविशिष्टम् ?, चतुर्णा सम्यक्त्व. सामायिक-श्रुतसामायिक-देशविरतिसामायिक-सर्वविरतिसामायिकानामेकतरमन्यतरदिति । अपिशब्दाद् मत्यादि च न लभते । न केवलमेतानि न लभते, पूर्वप्रतिपन्नोऽप्यायुर्वर्जकर्मोत्कृष्टस्थितौ न भवति, यतोऽवाप्तसम्यक्त्वस्तत्परित्याग एवं कार्मग्रन्थिकमतेनोत्कृ
स्थितीः कर्मप्रकृतीबध्नाति; सैद्धान्तिकाभिप्रायतस्तु भिन्नग्रन्थेः पुनरप्युत्कृष्टस्थितिबन्ध एव न भवति; आयुषस्तूत्कृष्टस्थितौ वर्त| मानः सम्यक्त्व-श्रुतसामायिकद्वयस्यानुत्तरसुर उत्पादकाले पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमानकः । तुशब्दादायुर्वर्जशषसप्तकर्म
प्रकृतीनां जघन्यस्थितावपि वर्तमानः मूक्ष्पसंपरायादिः सम्यक्त्व-श्रुत-सर्वविरतिसामायिकत्रयस्य पूर्वप्रतिपन्नत्वाद् न लभते न किश्चित् पतिपद्यते । आयुषस्तु जघन्यस्थितौ वर्तमानो न पूर्वप्रतिपन्नः, नापि प्रतिपद्यमानकः, आयुर्जघन्यस्थितेः क्षुल्लकभवग्रहणरूप| त्वात् , तद्वतां च जीवानां सम्यक्त्वाधुभयाभावात् , सास्वादनस्यापि तेष्वनुत्पादात् ॥ इति नियुक्तिगाथार्थः ॥११८६।।
'अष्टानां कर्मप्रकृतीनामुत्कृष्टस्थितौ' इत्युक्तम् । तत्रोत्कृष्टे-तरभेदभिन्नां तत्स्थितिमेव भाष्यकृदाह
"वीस सयरोवमाणं कोडाकोडीउ नाम-गोयाणं । सयरी मोहस्स ठिई सेसाणं तीसमुक्कोसा ॥११८७॥ १ प. छ.'अथ प्र'। २ नियुक्तिसमुत्थानप्रसङ्गतो ज्ञानतरुसमारोहः । ब्रजति च वक्ष्यमाणा समकं जिनप्रवचनोत्पत्तिः ॥ १८५॥
३ अष्टानां प्रकृतीनामुल्कृष्टस्थितौ प्रवर्तमानस्तु । जीवो न लभते सामायिकं चतुर्णामप्येकतरम् ॥ १८ ॥ ४ विंशतिः सागरोपमानां कोटाकोव्यो नाम-गोत्रयोः । सप्ततिर्मोहस्थ स्थितिः शेषाणां त्रिंशदुत्कृष्टा ॥ १८॥
५२९॥
।