SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥५३६॥ तह कम्मधन्नपल्ले जीवोऽणाभोगओ बहुतरागं । सोहंतो थोवतरं गिण्हंतो पावए गठिं ॥ १२०६ ॥ यथा कश्चित् कुटुम्बिकोऽतिमहति धान्यभृतपल्ये कदाचित् कथमपि स्तोकस्तोकतरमन्यद् धान्य प्रक्षिपति, बहुतरं तु शोध सापद्वाचः। यति-गृहव्ययाद्यर्थं ततस्तत् समाकर्षति । एवं च सति क्रमशो गच्छता कालेन तस्य धान्यं क्षीयते । प्रस्तुते योजयति- 'तहेत्यादि तथा तेनैव प्रकारेण कमैंव धान्यभृतपल्यः कर्मधान्यपल्यः, तत्र कर्मधान्यपल्ये, चिरसंचितप्रचुरकर्मणीत्यर्थः, कुटुम्बिकस्थानीयो जीवः कदाचित् कथमप्येवमेवाऽनाभोगतो बहुतरं चिरवद्धं कर्म शोधयन् क्षपयन् , स्तोकतरं तु नूतनं गृह्णानो बध्नन् ग्रन्थि यावत् प्राप्नोतिदेशोनकोटीकोटिशेषाण्यायुर्वर्जसप्तकणि धृत्वा शेषं तत् कर्म क्षपयतीत्यर्थः । एप यथाप्रवृत्तकरणस्य व्यापार इति ॥ १२०६ ॥ . अत्र कश्चिदाह- नन्वागमविरुद्धमिदम् , यतो ग्रन्थिभेदादर्वागसंयतोऽविरतोऽनादिमिथ्यादृष्टिरयम् । अस्य चैवंभूतस्य जन्तोबहुतरस्य कर्मणः क्षेपणम् , स्तोकस्य च बन्धोऽन्यत्रागमे निषिद्ध एव, यदाह "पल्ले महइमहल्ले कुंभ पक्खिवइ सोहए नालिं । असंजए अविरए बहु बंधए निज्जरे थोवं ॥१॥ पल्ले महइमहल्ले कुंभ सोहए पक्खिवे नालिं । जे संजए पमत्ते बहु निज्जरे बंधए थोवं ॥२॥ पल्ले महइमहल्ले कुंभ सोहेइ पक्खिवे न किंचि । जे संजए अपमत्ते बहु निज्जरे बंधए न किंचि ॥ ३॥" तदेवमिह गाथात्रय आद्यगाथायामसंयता-ऽविरत-मिथ्यादृष्टेः प्रतिसमये बन्धस्य बहुत्वम् , निर्जरायास्त्वल्पत्वमुक्तम् । भवद्भिस्त्वेतद्विपरीतमिह प्रतिपाद्यते, इति कथं न विरोधः । अत्रोच्यते-प्रायोवृत्तिरेषा यत्- असंयतस्य बहुतरकर्मण उपचयः, अल्पतरस्य चापाय इति । यदि पुनरित्यमेव सर्वदैव स्यात् , तदोपचितबहुकर्मणां जीवानां कदापि कस्यापि सम्यक्त्वादिलाभो न स्यात्, न चैतदस्ति, सम्यग्दृष्टयादीनां प्रत्यक्षत एवोपलम्भात् । किश्च, यदि सर्वदैव बहुतरस्य कर्मण उपचयः, तदा कालक्रमेण सर्वस्यापि पुद्गलराशेः कर्मतयैव ग्रहणमसङ्गः स्यात् , न चैतदप्यस्ति,स्तम्भ कुम्भा-ऽभ्र-भू-भवन-तनु-तरु-गिरि-सरित्-समुद्रादिभावेनापि परिणतानां तेषां सदैव दर्शनात् । तस्मादिह त्रयो , तथा कर्मधान्यपल्य जीवोऽनाभोगतो बहुतरम् । शोधयन् स्तोकतरं गृहानः प्राप्नोति प्रन्थिम् ॥ १२०६॥ २ पल्ये महातिमहति कुम्भ प्रक्षिपति शोधयति नाडीम् । असयतोऽविरतो बहु बनाति निजंगाति स्तोकम् ॥1॥ ॥५३६॥ पल्ये महातिमहति कुम्भ शोधयति प्रक्षिपति नाडीम् । यः संयतः प्रमत्तो बहु निजंगाति वभाति स्तोकम् ॥२॥ पल्ये महातिमहति कुम्भ शोधयति प्रक्षिपति न किञ्चित् । यः संयतोऽप्रमत्तो बहु निर्ज़गाति बनाति न किञ्चित् ॥३॥ For Persone el
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy