SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥५३७॥ भङ्गा द्रष्टव्याः , तद्यथा- कस्यचिद् बन्धहेतूनां प्रकर्षात् , पूर्वोपचितकर्मक्षपणहेतूनामपकर्षाच्चोपचयप्रकर्षः, कस्यचित्तु चन्धहेतूनां क्षपण| हेतूनां च साम्यादुपचया-ऽपचयसाम्यम्, कस्यचित् पुनर्बन्धहेतूनामपकर्षात् क्षपणहेतूनां च प्रकर्षादपचयमकर्षः। तदिह तृतीयभने R यदाऽसौ मिथ्यादृष्टिरपि वर्तते तदा ग्रन्थिदेशं प्राप्नोति । इत्युक्तः पल्यदृष्टातः ।। १२०५ ॥ १२०६ ॥ कथं पुनरनाभोगत एवैतावतः कर्मणोऽपचयः १, इत्याशङ्कय द्वितीयं गिरिसरिदुपलदृष्टान्तमाह 'गिरिनइ-बत्तणिपत्थरघडणोवम्मेण पढमकरणेणं । जा गंठी कम्मठितिक्खवणमणाभोगओ तस्स॥१२०७॥ गिरिनदीपाषाणानां, तथा, वर्तनी मार्गस्तत्पतितपाषाणानां च लघूपलशकलानां या घटना परस्परादिघर्षणा तदौपम्येन ग्रन्थि यावत् कर्मस्थितिक्षपणमनाभोगत एव तस्य जीवस्य प्रथमेन यथाप्रवृत्तकरणेन भवति । अयमभिप्रायः- यथा गिरिनदीपाषाणाः मार्गपतितपाषाणाश्चानाभोगतोऽपि- 'वयमीशा भवामः' इत्यध्यवसायमन्तरेणापि, परस्परतो लोकचरणादिना वा घृष्यमाणा घश्चनघोलनान्यायेन केनापि वृत्त-व्यस-चतुरस्त्र-इस्व-दीर्घाद्यनेकाकारा भवन्ति; एवमिहापि कथमप्येवमेवाऽनाभोगतो यथाप्रवृत्तकरणेन जीवाः कर्म क्षपयित्वा ग्रन्थिदेशमाप्नुवन्ति ॥ १२०७॥ पिपीलिकोदाहरणमधिकृत्याह खितिसाभावियगमणं थाणूसरणं तओ समुप्पयणं । ठाणं थाणुसिरे वा ओरहणं वा मुइंगाणं ॥१२०८॥ खिइगमणं पिव पढम थाणूसरणं व करणमपुव्वं । उप्पयणं पिव तत्तो जीवाणं करणमनियहि ॥१२०९॥ थाणु व्व गठिदेसे गंठियसत्तस्स तत्थवत्थाणं । ओयरणं पिव तत्तो पुणो वि कम्मठिइविवुड्ढी ॥१२१०॥ 'मुइंगाणं ति' कीटिकानामत्र पश्चार्थाः किल विवक्षिताः; तद्यथा- क्षितौ तावत् स्वाभाविकमविशिष्टमितश्चेतश्च गमनं पर्यटनम् । गिरिनदी-वर्तनीपाषाणघटनौपम्येन प्रथमकरणेन । यावद् ग्रन्थि कर्मस्थितिक्षपणमनाभोगतस्तस्य ।। १२०७ ॥ २ क्षितिस्वाभाविकगमनं स्थाणूत्सरणं ततः समुत्पतनम् । स्थानं स्थाणुशिरसि वाऽवरोदणं वा कीटिकानाम् ॥ १२०८ ॥ क्षितिगमनमिव प्रथम स्थाणूत्सरणमिव करणमपूर्वम् । उत्पतनमिव ततो जीवानां करणमनिवर्ति ॥ १२०९ ॥ स्थाणाविव प्रन्धिदेशे प्रन्थिकसत्वस्य तत्रावस्थानम् । अवसर्पणमिव ततः पुनरपि कर्मस्थितिविवृद्धिः ॥ १२१०॥ MONDIA PAPIDIO ॥५३७॥ For Personal and Private Use Only
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy