Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा० ॥५३६॥
तह कम्मधन्नपल्ले जीवोऽणाभोगओ बहुतरागं । सोहंतो थोवतरं गिण्हंतो पावए गठिं ॥ १२०६ ॥ यथा कश्चित् कुटुम्बिकोऽतिमहति धान्यभृतपल्ये कदाचित् कथमपि स्तोकस्तोकतरमन्यद् धान्य प्रक्षिपति, बहुतरं तु शोध
सापद्वाचः। यति-गृहव्ययाद्यर्थं ततस्तत् समाकर्षति । एवं च सति क्रमशो गच्छता कालेन तस्य धान्यं क्षीयते । प्रस्तुते योजयति- 'तहेत्यादि तथा तेनैव प्रकारेण कमैंव धान्यभृतपल्यः कर्मधान्यपल्यः, तत्र कर्मधान्यपल्ये, चिरसंचितप्रचुरकर्मणीत्यर्थः, कुटुम्बिकस्थानीयो जीवः कदाचित् कथमप्येवमेवाऽनाभोगतो बहुतरं चिरवद्धं कर्म शोधयन् क्षपयन् , स्तोकतरं तु नूतनं गृह्णानो बध्नन् ग्रन्थि यावत् प्राप्नोतिदेशोनकोटीकोटिशेषाण्यायुर्वर्जसप्तकणि धृत्वा शेषं तत् कर्म क्षपयतीत्यर्थः । एप यथाप्रवृत्तकरणस्य व्यापार इति ॥ १२०६ ॥ . अत्र कश्चिदाह- नन्वागमविरुद्धमिदम् , यतो ग्रन्थिभेदादर्वागसंयतोऽविरतोऽनादिमिथ्यादृष्टिरयम् । अस्य चैवंभूतस्य जन्तोबहुतरस्य कर्मणः क्षेपणम् , स्तोकस्य च बन्धोऽन्यत्रागमे निषिद्ध एव, यदाह
"पल्ले महइमहल्ले कुंभ पक्खिवइ सोहए नालिं । असंजए अविरए बहु बंधए निज्जरे थोवं ॥१॥ पल्ले महइमहल्ले कुंभ सोहए पक्खिवे नालिं । जे संजए पमत्ते बहु निज्जरे बंधए थोवं ॥२॥
पल्ले महइमहल्ले कुंभ सोहेइ पक्खिवे न किंचि । जे संजए अपमत्ते बहु निज्जरे बंधए न किंचि ॥ ३॥" तदेवमिह गाथात्रय आद्यगाथायामसंयता-ऽविरत-मिथ्यादृष्टेः प्रतिसमये बन्धस्य बहुत्वम् , निर्जरायास्त्वल्पत्वमुक्तम् । भवद्भिस्त्वेतद्विपरीतमिह प्रतिपाद्यते, इति कथं न विरोधः ।
अत्रोच्यते-प्रायोवृत्तिरेषा यत्- असंयतस्य बहुतरकर्मण उपचयः, अल्पतरस्य चापाय इति । यदि पुनरित्यमेव सर्वदैव स्यात् , तदोपचितबहुकर्मणां जीवानां कदापि कस्यापि सम्यक्त्वादिलाभो न स्यात्, न चैतदस्ति, सम्यग्दृष्टयादीनां प्रत्यक्षत एवोपलम्भात् । किश्च, यदि सर्वदैव बहुतरस्य कर्मण उपचयः, तदा कालक्रमेण सर्वस्यापि पुद्गलराशेः कर्मतयैव ग्रहणमसङ्गः स्यात् , न चैतदप्यस्ति,स्तम्भ कुम्भा-ऽभ्र-भू-भवन-तनु-तरु-गिरि-सरित्-समुद्रादिभावेनापि परिणतानां तेषां सदैव दर्शनात् । तस्मादिह त्रयो
, तथा कर्मधान्यपल्य जीवोऽनाभोगतो बहुतरम् । शोधयन् स्तोकतरं गृहानः प्राप्नोति प्रन्थिम् ॥ १२०६॥ २ पल्ये महातिमहति कुम्भ प्रक्षिपति शोधयति नाडीम् । असयतोऽविरतो बहु बनाति निजंगाति स्तोकम् ॥1॥
॥५३६॥ पल्ये महातिमहति कुम्भ शोधयति प्रक्षिपति नाडीम् । यः संयतः प्रमत्तो बहु निजंगाति वभाति स्तोकम् ॥२॥ पल्ये महातिमहति कुम्भ शोधयति प्रक्षिपति न किञ्चित् । यः संयतोऽप्रमत्तो बहु निर्ज़गाति बनाति न किञ्चित् ॥३॥
For Persone el
Loading... Page Navigation 1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202