Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा.
॥५२१॥
मुच्यते ?, इत्याह- यतो यस्माद् यद् विफलं तदिह हतं विवक्षितम् , फलं च ज्ञानस्य क्रियैव, ततो विगतफलं ज्ञानं क्रियाहीनमेवोच्यते, नान्यत् । अत्र च प्रयोगः- हतं ज्ञानमेव केवलम् , सत्क्रियाहीनत्वात् , महानगरप्रदीपनकदाहे पलायनक्रियारहितपङ्गुलोचनज्ञानवदिति । एवमुक्ते सति क्रियात एव मोक्षमिच्छन् ज्ञानेऽनादृतस्तत्त्यागं मा कार्षीच्छिष्यः; इत्यतो भण्यते- हताऽज्ञानतः क्रिया। हता मोक्षलक्षणफलरहिताजानपरिगृहीता निहवादेः क्रिया, सम्यग्दृष्टेरपि ज्ञानोपयोगशून्यस्य क्रिया हतैव, तथाविधफलविकलत्वात् , सर्वतः संकटपदीप्तनगरे दह्यमानगृहायभिमुखपलायमानान्धगतिक्रियावदिति । तस्मादन्योन्यापेक्षे समुदिते एव ज्ञान-क्रिये मोक्षस्य साधनमेष्टव्ये, न प्रत्येकमिति ॥ ११६० ॥११६१ ॥
एतदेवाह
अइसकडपुरदाहम्मि अंधपरिधावणाइकिरिय व्व । तेणं नोन्नावेक्खा साहणमिह नाण-किरियाओ॥११६२।। गताथैव ॥ ११६२॥ अत्र परः प्राह
पेत्तेयमभावाओ निव्वाणं समुदियासु वि न जुत्तं । नाण-किरियासु वोत्तुं सिकतासमुदायतेल्लं व ॥११६३॥
आह-ननु भवत्यतिपादितन्यायेन प्रत्येकावस्थायां ज्ञान-क्रिययोर्निर्वाणसाधकसामर्थ्याभावात् समुदिताभ्यामपि ज्ञान-क्रियाभ्यां निर्वाणं वक्तुं न युक्तम् , सिकतासमुदाये तैलबत् । अत्र प्रयोगः- इह यद् यतः प्रत्येकावस्थायां नोत्पद्यते, तत् ततः समुदायेऽपि न भवति, यथा सिकताकणेषु प्रत्येकमभवत् तैलं तत्समुदायेऽपि न भवंति, न जायते च प्रत्येकं ज्ञान-क्रियाभ्यां मोक्षः, अतस्तत्समुदायादप्यसौ न युज्यत इति । तदेतदयुक्तम् , प्रत्यक्षविरुद्धत्वात् । तथाहि- मृत्-तन्तु-चक्र-चीवरादिभ्यः प्रत्येकमभवन्तोऽपि तत्समुदायाद् घटादिपदार्थसार्थाः प्रादुर्भवन्तो दृश्यन्ते, अतोऽदृष्टस्य मोक्षस्यापि ज्ञान-क्रियासमुदायात् प्रादुर्भूतिरविरुदैवेति ॥११६३।।
किश्च,
"वीसं न सव्वह च्चिय सिकतातेल्लं व साहणाभावो । देसोबगारिया जासा समवायम्मि संपुण्णा ॥११६॥
, अतिसंकटपुरदाऽग्धपरिधावनादिक्रियेव । तेनाऽम्योन्यापेक्षे साधनमिह ज्ञान-क्रिये ॥ १६॥ २ प्रत्येकमभावाद निर्माण समदितयोरपि न युक्तम् । ज्ञान-क्रिययोर्वक्तुं सिकतासमुदायतलमिव 110॥ ३ क. ग. 'नोपपद्य'। ४ विष्वगन सर्वथैव सिकतातैलमिव साधनाभावः । देशोपकारिता या सा समवाये संपूर्णा ॥१६॥
॥५२॥
Loading... Page Navigation 1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202