Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
6
बृहद्वत्तिः ।
विशेषा० ॥५१९॥
S
गताथैव ॥ ११५३ ।। अत्र प्रेर्यमुत्थाप्य परिहरति
अंघोऽणवबोहो च्चिय बोहफलं पुण सुयं किमण्णाणं?। बोहो वितओ विफलो तस्स जमंधस्स व वबोहो॥११५४॥ __ आह- नन्वत्र दृष्टान्त-दार्शन्तिकयोवैषम्यमेव, यतोऽन्धोऽनवबोध एव । न खलु तस्य बहुभिरपि प्रदीपकोटिभिः प्रज्वलिताभिघंटाधवबोधो जन्यते, स्वयं चक्षुर्विकलत्वात् तस्य । श्रुतज्ञानं तु सज्जचक्षुषः प्रदीपवद् बोधफलमेव, ततः किमिदमज्ञानमभिधीयते ?किमिति केवलाधीतश्रुतस्य तदकिश्चित्करमुच्यते ? इति भावः । अत्रोत्तरम्-बोधोऽपि तकोऽसौ श्रुतजनितस्तस्य चरणहीनस्य विफलो यस्मात् , तस्मादनवबोध एवेति भावः, यथाऽन्धस्य 'अवबोहो त्ति' अवबोधः ॥ इति गाथाद्वयार्थः ॥ ११५४ ॥
व्यतिरेकमाह
अप्पं पि सुयमहीयं पगासयं होइ चरणजुत्तस्स । एक्को वि जह पईवो सचक्खुअस्सा पयासेइ ॥११५५।।
अल्पमपि श्रुतमधीतं चरणयुक्तस्य तद्धतुत्वात् प्रकाशकं भवति- प्रकाशकं भण्यते, क्रियाहेतुत्वेन सफलत्वाज्ज्ञानत्वेन व्यपदिश्यत इति तात्पर्यम् । यथैकोऽपि प्रदीपो हेयो-पादेयपरिहारो-पादानादिक्रियाहेतुत्वाच्चक्षुष्मतः प्रकाशयति प्रकाशको भण्यते ॥ इति । नियुक्तिगाथार्थः ॥ ११५५ ॥
भाष्यम्*किरियाफलसंभवओ अप्पं पिसुयं पगासयं होइ । एको वि हु चक्खुमओ किरियाफलदो जह पईवो॥११५६॥ पूर्वार्धस्यान्ते 'चरणयुक्तस्य' इति शेषः। शेषमुक्तार्थमेव ॥ ११५६ ॥ वक्ष्यमाणवृत्तं संबन्धयन्नाह-- नं हि नाणं विफलं चिय किलेसफलयं पि चरणरहियस्स। निष्फलपरिवहणाओ चंदणभारो खरस्सेव॥११५७॥
, अन्धोऽनवबोध एव बोधफलं पुनः श्रुतं किमज्ञानम् ? । बोधोऽपि सको विफलस्तस्य यदन्धस्येवाऽवबोधः ॥ ११५४ ॥ २ घ. छ. 'दबो'। ३ अल्पमपि श्रुतमधीतं प्रकाशकं भवति चरणयुक्तस्य । एकोऽपि यथा प्रदीपः सचक्षुषः प्रकाशयति ॥ ११५५॥ ४ क्रियाफलसंभवतोऽल्पमपि श्रुतं प्रकाशकं भवति । एकोऽपि खलु चक्षुष्मतः क्रियाकलदो यथा प्रदीपः ॥ ११५६ ॥ ५ न हि ज्ञानं विफलमेव केशफलकमपि चरणरहितस्य । निष्फलपरिवहणाश्चन्दनभारः खरस्येव ॥ १५॥
॥५१९॥
Loading... Page Navigation 1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202