Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
भाध्यम
टवात
विशेषा.
सव्वं पि किमय देसो केवलबजाणि वाविसदेणं । चत्तारि खओवसमे सामइयाई च पाएणं ॥११८॥
सव्वकसायावगमे केवलमिह नाण-दंसण-चरितं । देसक्खए वि सम्मं धुवं सिवं सव्वखइएसुं ॥११८२॥ ॥५२८॥
सर्वमपि श्रुतं क्षायोपशमिकभाववर्ति, किमुत तद्देशः, इत्यपिशब्दभावार्थः । अथवा, अपिशब्दात् केवलज्ञानवर्जानि चत्वारि ज्ञानानि, सामायिकानि च सम्यक्त्व-श्रुत-देश-सर्वविरमणरूपाणि चत्वारि, प्रायोग्रहणादक्षायिको-पशमिकानीति । इह 'नण्णत्थ खए कसायाण' इति केवलज्ञानविषयसामान्योक्तावतिप्रसङ्गाद् विशेषं दर्शयति- केवलज्ञानं, केवलदर्शनं, केवलं परिपूर्ण क्षायिकं चारित्रं
चेति । एतानि त्रीणि सर्वेषामेव क्रोधादिकषायाणामपगमे क्षये भवन्ति । क्षायिक सम्यक्त्वं पुनस्तेषामनन्तानुवन्धिचतुष्टयरूपदेशक्षयेऽपि AA भवति । ततः सर्वेष्वपि ज्ञान-दर्शन-सम्यक्त्व-चारित्रेषु क्षायिकेषु जातेषु सत्सु धुवं निश्चितं शिवं मोक्षो भवति जीवस्येति ॥११८१॥११८२॥
अथोत्तरनियुक्तिगाथासंबन्धनार्थमाह
कहमेयाणमलाभो लाभो व कमो तदावरणया वा । आवरणखउवसमो समोखओ वा कहं करस ?॥११८३॥
कथं पुनरेतेषां सम्यक्त्वादीनामलाभः १, कथं वा लाभ:- कुतो हेतोरित्यर्थः १, को वा लाभक्रमः, कस्य वा किमावरणम् १, कस्य वा कथमावरणक्षयोपशमः १, कथं वोपशमः १, क्षयो वा ? इत्येका पातना ॥ ११८३ ।।
पातनान्तरमाह
अहवा तवाइमइयं कहमारूढो तरुं जिणो कह वा । तत्तो पवक्खमाणा जाया जिणपवयणुत्पत्ती ?॥११८४ ॥
अथवा, 'तैव-नियम-नाणरुक्खं' इत्यादि पागुक्तम् , तत्रेदानीमेतत् पृच्छयते- तं तपोनियमादिवृक्षं जिनः कथमारूढः- केन हेतुना, केन वा क्रमेण ? इत्यर्थः, कथं वा ततो जिनात् प्रवक्ष्यमाणा भणिष्यमाणा जिनप्रवचनोत्पत्तिर्जाता ? इति ॥ ११८४ ॥
सर्वमपि किमुत देशः केवलवानि वाऽपिशब्देन । चत्वारि क्षयोपशमे सामायिकानि च प्रायेण ॥ ११८१॥ .
___सर्वकषायापगमे केवलमिह ज्ञान-दर्शन-चारित्रम् । देशक्षयेऽपि सम्यग् ध्रुवं शिवं सर्वक्षायिकेषु ॥ १९८२ ॥ २ गाथा ११८॥ ३ क.ग. कं पुनस्तेषां सम्यक्त्वमन' । ४ कथमेतेषामलाभो लाभो वा क्रमस्तदावरणता वा आवरणक्षयोपशमः शमः क्षयो वा कथं कस्य ? ॥ ११८३॥ ५ क.ग.'म्यग्ज्ञानादी'। । अथवा तपदिमयं कथमारूडस्तरं जिनः कथं वा। ततः प्रवक्ष्यमाणा जाता जिनप्रवचनोत्पत्तिः ॥ १९८४ ॥ ७ गाथा १०९४ ।
॥५२८॥
For Personal and Private Use Only
www.janelorary.org
Loading... Page Navigation 1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202