Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 127
________________ विशेषा हदत्तिः । ॥५२५॥ परविरोधः ?, इत्याशङ्कयाह संजम-तवोमई जं संवरनिजरफला मया किरिया । तो तिगसंजोगो विहु ताउ च्चिय नाण-किरियाओ॥११७४॥ संयम-तपोमयी संवर-निर्जरफला च यद् यस्मात् तीर्थकर-गणधराणां मता संमता क्रिया, ततस्तस्माज्ज्ञान-तपः-संयमरूपस्त्रिकसंयोगोऽप्यसौ ते एव पूर्वोक्ते ज्ञान-क्रिये, नाधिक किश्चिदिति । इदमुक्तं भवति- एकैव चारित्रक्रिया संयम-तपोभेदाद् द्विधा भिद्यते, तपः-संयमरूपत्वाचारित्रस्य । अत एव संवरो निर्जरा च तस्याः फलम् , संयमस्याऽऽश्रवद्वारसंवरहेतुत्वात् , तपसस्तु कर्मनिर्जराकारणत्वात् । अतो यद्यपीह ज्ञानादित्रयाद् मोक्ष उच्यते, तथापि तपः-संयमयोः क्रियायामेवैकस्यामन्तर्भावाज्ज्ञान-क्रियालक्षणद्वयादेवाऽयम्, इति न कश्चिद् विरोधः। अपरस्त्वाह- ननु “ सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः" इति प्रसिद्धम् , अत्र तु ज्ञान-चारित्राभ्यां स प्रतिपाद्यते, इति कथं न विरोधः। एतदप्ययुक्तम् , अभिप्रायापरिज्ञानात् , यतो ज्ञानग्रहणेनैवेह सम्यक्त्वमाक्षिप्यते, सम्यक्त्वमन्तरेण ज्ञानस्याऽप्यभावात् , मिथ्यादृष्टिज्ञानस्याऽज्ञानत्वेनाऽसकृत्पतिपादनात् , तथा, ज्ञानविशेष एव सम्यक्त्वम् , इति प्रागत्राप्युक्तमेव, तद्यथा नाणमवाय-धिईओ दसणमिट्टं जहोग्गहे-हाओ । तह तत्तरुई सम्मं रोइज्जइ जेण तं नाणं ॥ १ ॥ तस्माज्ज्ञानान्तर्गतमेव सम्यक्त्वम् , अतो ज्ञानग्रहणात् तद् गृहीतमेव, इत्यलं प्रसङ्गेन । तदेवं व्याख्याता 'नाणं पयासर्य' इत्यादिगाथा ॥ ११७४ ॥ अथ भावे खओवसमिए' इत्याद्युत्तरगाथासंबन्धनार्थमाह ने लहइ सिवं सुयम्मि वि बढ्तो अचरणो त्ति जं तस्स । हेऊ खओवसमओ जह वटुंतोऽवहिण्णाणे ॥११७५॥ इह 'जति' 'सुयनाणम्मि वि जीवो वट्टतो सो न पाउणइ मोक्खं' इत्यादिगाथायां यत् पूर्व प्रतिज्ञातमित्यर्थः । किं प्रतिज्ञा PHOT संयम-सपोमयी यत् संवर-निर्जराफला मता क्रिया । ततखिकसंयोगोऽपि खलु ते एव ज्ञान-क्रिये ॥ ११ ॥ २ तत्त्वार्थाधिगमसूत्रे , २ गाथा ५३६। ३ गाथा ११६९। ४ गाथा ११८.. ५ न लभते शिवं श्रुतेऽपि वर्तमानोऽचरण इति यत् तस्य । हेतुः क्षयोपशमतो यथा वर्तमानोऽवधिज्ञाने ॥1१७५॥ HON॥५२५॥ गाथा ११४३।

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202