________________
विशेषा
हदत्तिः ।
॥५२५॥
परविरोधः ?, इत्याशङ्कयाह
संजम-तवोमई जं संवरनिजरफला मया किरिया । तो तिगसंजोगो विहु ताउ च्चिय नाण-किरियाओ॥११७४॥
संयम-तपोमयी संवर-निर्जरफला च यद् यस्मात् तीर्थकर-गणधराणां मता संमता क्रिया, ततस्तस्माज्ज्ञान-तपः-संयमरूपस्त्रिकसंयोगोऽप्यसौ ते एव पूर्वोक्ते ज्ञान-क्रिये, नाधिक किश्चिदिति । इदमुक्तं भवति- एकैव चारित्रक्रिया संयम-तपोभेदाद् द्विधा भिद्यते, तपः-संयमरूपत्वाचारित्रस्य । अत एव संवरो निर्जरा च तस्याः फलम् , संयमस्याऽऽश्रवद्वारसंवरहेतुत्वात् , तपसस्तु कर्मनिर्जराकारणत्वात् । अतो यद्यपीह ज्ञानादित्रयाद् मोक्ष उच्यते, तथापि तपः-संयमयोः क्रियायामेवैकस्यामन्तर्भावाज्ज्ञान-क्रियालक्षणद्वयादेवाऽयम्, इति न कश्चिद् विरोधः।
अपरस्त्वाह- ननु “ सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः" इति प्रसिद्धम् , अत्र तु ज्ञान-चारित्राभ्यां स प्रतिपाद्यते, इति कथं न विरोधः। एतदप्ययुक्तम् , अभिप्रायापरिज्ञानात् , यतो ज्ञानग्रहणेनैवेह सम्यक्त्वमाक्षिप्यते, सम्यक्त्वमन्तरेण ज्ञानस्याऽप्यभावात् , मिथ्यादृष्टिज्ञानस्याऽज्ञानत्वेनाऽसकृत्पतिपादनात् , तथा, ज्ञानविशेष एव सम्यक्त्वम् , इति प्रागत्राप्युक्तमेव, तद्यथा
नाणमवाय-धिईओ दसणमिट्टं जहोग्गहे-हाओ । तह तत्तरुई सम्मं रोइज्जइ जेण तं नाणं ॥ १ ॥ तस्माज्ज्ञानान्तर्गतमेव सम्यक्त्वम् , अतो ज्ञानग्रहणात् तद् गृहीतमेव, इत्यलं प्रसङ्गेन । तदेवं व्याख्याता 'नाणं पयासर्य' इत्यादिगाथा ॥ ११७४ ॥
अथ भावे खओवसमिए' इत्याद्युत्तरगाथासंबन्धनार्थमाह
ने लहइ सिवं सुयम्मि वि बढ्तो अचरणो त्ति जं तस्स । हेऊ खओवसमओ जह वटुंतोऽवहिण्णाणे ॥११७५॥ इह 'जति' 'सुयनाणम्मि वि जीवो वट्टतो सो न पाउणइ मोक्खं' इत्यादिगाथायां यत् पूर्व प्रतिज्ञातमित्यर्थः । किं प्रतिज्ञा
PHOT
संयम-सपोमयी यत् संवर-निर्जराफला मता क्रिया । ततखिकसंयोगोऽपि खलु ते एव ज्ञान-क्रिये ॥ ११ ॥ २ तत्त्वार्थाधिगमसूत्रे , २ गाथा ५३६। ३ गाथा ११६९। ४ गाथा ११८.. ५ न लभते शिवं श्रुतेऽपि वर्तमानोऽचरण इति यत् तस्य । हेतुः क्षयोपशमतो यथा वर्तमानोऽवधिज्ञाने ॥1१७५॥
HON॥५२५॥
गाथा ११४३।