SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥५२४॥ आह- ननु जीवापवरकशोधने किमिति ज्ञानादीनां त्रितयमप्यपेक्ष्यते, यावताऽन्यतरेणैकेनापि तच्छुद्धिर्भविष्यति ?, इत्याशङ्कयैकैकस्मात् कार्यसिद्धिनिराकरणेन त्रितयसमुदायादेव तसिद्धिं समर्थयन्नाह भाष्यकार: विष्यति , इत्या- बृहदत्तिः। असहायमसोहिकरं नाणमिह पगासमेत्तभावाओ । सोहेइ घरकयारं जह सुपगासो वि न पईवो ॥११७०॥ नय सव्वविसोहिकरी किरिया वि जमपगासधम्मा सा । जह न तमोगहमलं नरकिरिया सव्वहा हरइ॥११७१॥ दीवाइपयासं पुण सक्किरियाए विसोहियकयारं । संवरियकयारागमदारं सुद्धं घरं होइ ॥ ११७२ ॥ तह नाणदीवविमलं तवकिरियासुद्धकम्मयकयारं । संजमसंवरियमुहं जीवघरं होइ सुविसुद्धं ॥११७३ ॥ इह न ज्ञानमसहायमेकाक्येव शोधयितुमलम् , प्रकाशमात्रखभावत्वात् , यदक्रियं प्रकाशमात्रस्वभावं न तद् विशुद्धिकरं दृष्टम् , यथा न गृहरजो-मलविशुद्धिकृद् दीपः, यच्च विशुद्धिकरं न तत् प्रकाशमात्रखभावम् , यथेष्टा-निष्टप्राप्ति-परिहारपरिस्पन्दवान् नयनादिप्रकाशधर्मा देवदत्तः, प्रकाशमात्रस्वभावं च ज्ञानम् , तस्मादसहायत्वाद् न विशुद्धिकरं तदिति । क्रियाप्येकाकिनी न सर्वशुद्धिकरी, अप्रकाशधर्मकत्वात् , यद् यदप्रकाशधर्मकं न तत् सर्वविशुद्धिकरम् , यथा न समस्तगृहरजो-मलविशुद्धयेऽयक्रिया, चक्षुष्मतो वा क्रिया यथा तमोयुक्तं गृहं तमोगृहं तस्य न सर्वविशुद्धयेऽलम् , या च सर्वविशुद्धयेऽलं न साप्रकाशस्वभावा, यथा चक्षुष्मतो नरस्य वितमस्कगृहे समस्तरजो-मलापनयनक्रिया, अप्रकाशस्वभावा चैकाकिनी क्रिया, अतो न सर्वविशुद्धिकरीति । ___त्रितयादपि समुदितात् तर्हि शुद्धिर्न भविष्यतीति चेत् । नैवम् , इत्याह- दीपादिप्रकाशं पुनर्यथा गृहं सक्रियया विशोधितकचवरं संतृतकचवरागमहेतुभूतद्वारं सर्वथा शुदं भवति तथा तेनैव प्रकारेण ज्ञानदीपविमलितं तपःक्रियया शोधितकर्मकचवरं संयमेन संतृतसमस्ताश्रवद्वारं जीवगृहं सुविशुद्धं सिद्धिसुखसंदोहनिवासयोग्यं भवतीत्यर्थ इति ॥ ११७० ॥ ११७१ ॥११७२ ॥ ११७३ ॥ आह- ननु पूर्व ज्ञान-क्रियालक्षणाद् द्वयाद् मोक्षः, इदानीं तु ज्ञान-तपः-संयमरूपात् त्रितयादसावुच्यते, इति कथं न पूर्वा EsarokarosBTETara ॥५२४॥ , असहायमशुद्धिकरं ज्ञानमिह प्रकाशमानभावात् । शोधयति गृहकचवरं यथा सुप्रकाशोऽपि न प्रदीपः ॥ १७ ॥ न च सबविशुद्धिकरी क्रियाऽपि यदप्रकाशधर्मा सा । यथा न तमांगेहमलं नरक्रिया सर्वथा हरति ॥ ११01॥ दीपादिप्रकाशं पुनः सक्रियया विशोधितकचवरम् । संवृतकपवरागमद्वारं सवं गृहं भवति ॥ 110॥ तथा ज्ञान-दीपविमलं तपःक्रियाशुदकर्मकचवरम् । संयमसंवृतमुखं जीवगृदं भवति सुविशुद्धम् ॥ 1108॥ Educa For Use Only
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy