________________
विशेषा ०
॥५२३॥
Jain Educationa Internation
लक्षणं भवति । कुतः ?, अत्र संयोगे सम्यक्क्रियो-पलब्धिभावादिति । क्रिया चारित्ररूपा, उपलब्धिस्तु ज्ञानम् । इह यत्र यत्र सम्यक्|क्रिया- ज्ञाने तत्र तत्रेष्टफलसिद्धि:, यथाऽन्ध- पङ्गुसम्यक्क्रिया-ज्ञानसंयोगे, सम्यक्क्रिया- ज्ञाने चात्र द्वयसंयोगे, तस्मादतो मोक्षफलसिद्धिः । इत्यन्वयप्रयोगः । अथ व्यतिरेकप्रयोग उच्यते यद् विफलं न तत्र सम्यक्क्रिया- ज्ञाने दृश्येते यथा भुवि पृथिव्यां गतिक्रियारहिते विघटितैकचक्रे रथे, सम्यक्क्रिया- ज्ञाने चात्र द्वयसंयोगे तस्मादतो मोक्षफलप्राप्तिरिति ।। ११६७ ।।
वक्ष्यमाणनियुक्तिगाथासंबन्धनार्थमाह
सहकारि तेसिं किं केणोवकुरुते सहावेणं । नाण चरणाणमहवा सहावनिहारणमियाणिं ॥ ११६८ ॥
आह- ज्ञान-क्रिययोः सहकारित्वे सति किं केन स्वभावेनोपकुरुते - किमविशेषेणोपकुरुतः, शिविकावाहकपुरुषसंघातवत् १ ; आहोस्विद् भिन्नस्वभावतया, गतिक्रियायां नयन-चरणादिवत् ? । अत्रोच्यते भिन्नस्वभावतया, यत आह- 'नाणं पयासयमित्यादि' । इत्येका वक्ष्यमाणगाथायाः प्रस्तावना । अथवा, संक्षिप्ताऽन्या प्रस्तावनोच्यते, यथा- तयोरेव ज्ञान-चरणयोरिदानीं स्वभावनिर्धारणं क्रियते । इति संक्षेप-विस्तरकृत एव भेदः, न तु पारमार्थिकः ॥ इति गाथान्यार्थः ।। ११६८ ।।
नाणं पयास सोहओ तवो संजमो य गुत्तिकरो । तिन्हं पि समाओगे मोक्खो जिणसासणे भणिओ ॥११६९॥
इह यथा किञ्चिदुद्वाद्वारं बहुवातायनजालकच्छिद्रं वाताकृष्टादिमचुररेणु कचवरपूरितं शून्यगृहम् । तत्र च वस्तुकामः कोऽपि तत् शुशोधयिषुर्द्वारिवातायनजालकानि सर्वाण्यपि बाह्यरेणु- कचवर प्रवेशनिषेधार्थं स्थगयति । मध्ये च प्रदीपं प्रज्वलयति । पुरुषं च कचवरायाकर्षणाय व्यापारयति । तत्र च प्रदीपो रेण्वादिमलप्रकाशनव्यापारेणोपकुरुते द्वारादिस्थगनं तु बाह्यरेण्वादिप्रवेश निषेधेन, पुरुषस्तु रेण्वाद्याकर्षणात् तच्छोधनेन । एवमिहापि जीवापवरक उद्घाटाश्रवद्वारः सद्गुणशून्यो मिथ्यात्वादिहेत्वाकृष्टकर्मकचवरपूरितो मुक्तिसुखनिवास हेतोः शोधनीयो वर्तते । तत्र च प्रदीपस्थानीयं ज्ञानं जीवादिवस्तूनां प्रकाशकम्, तपस्तु पुरुषस्थानीयं कर्मकचवरशोधकम्, संयमस्तु द्वारादिस्थगनकल्पो गुप्तिकरो नूतनकर्मकचवरप्रवेश निषेधकः । एवं त्रयाणामपि ज्ञानादीनां समायोगे समवाये मोक्षो जीवस्य जिनशासने भणितः । एवं शुद्धस्वरूपे जीवमन्दिरे सिद्धिसुखानि संततं निवसन्ति ।। इति नियुक्तिगाथार्थः ।। ११६९ ।।
७ सहकारित्वे तयोः किं केनोपकुरुते स्वभावेन ? ज्ञान चरणयोरथवा स्वभावनिर्धारणमिदानीम् ॥ ११६८ ॥ २ ज्ञानं प्रकाशकं शोधकं तपः संयमय गुप्तिकरः । त्रयाणामपि समायोगे मोक्षो जिनशासने भणितः ॥ १६९ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥५२३॥
www.jainelibrary.org