________________
बृहदत्तिः ।
विशेषा० ॥५२२॥
Preca
न च विष्वक् पृथक् सर्वथैव सिकताकणानां तैल इव साध्ये ज्ञान क्रिययोर्मोक्षं प्रति साधनत्वाभावः, किन्तु या च यावती च तर्योमोक्षं प्रति देशोपकारिता प्रत्येकावस्थायामप्यस्ति, सा च समुदाये संपूर्णा भवति, इत्येतावान् विशेषः, अतः संयोग एव ज्ञान- क्रिययोः कार्यसिद्धिः ॥ इति गाथापञ्चकार्थः॥ ११६४ ॥ एतदेवाह
संजोगसिद्धीइ फलं वयंति न ह एगचक्केण रहो पयाइ।
अंधो य पंगू य वणे समिच्चा ते संपउत्ता नगरं पविट्ठा ॥ ११६५ ॥ ज्ञान-क्रिययोः संयोगनिष्पत्तावेव मोक्षलक्षणं फलमाचक्षते तीर्थकराः । न हि लोकेऽप्येकचक्रेण रथः प्रवर्तते । एवमन्यदपि सर्व सामग्रीजन्यमेव कार्यमवगन्तव्यम् । तथा चान्ध-पपदाहरणमिह वक्तव्यम, तद्यथा- कस्यापि नगरस्य सत्को लोकः कुतोऽपि राजभयादरण्यं गतः । तत्रापि तस्करवाटीभयाद् वाहनादिकमुज्झित्वा प्रपलायितः । अन्ध-पङ्गु पुनरनाथौ तत्रैव स्थितौ । तत्र च दवाग्नौ सर्वतः प्रदीप्ते तो परस्परं संप्रयुक्तौ । पङ्गुरन्धेन स्वस्कन्धमारोपितः । स चान्धस्य सम-विषम-स्थाणु-कण्टकादिकं कथयति । अतस्तस्य सत्केन चाक्षुषज्ञानेन, अन्धसत्कया च गतिक्रियया सम्यग् मार्गप्रवृत्त्या क्षेमेण नगरं प्रविष्टाविति । एवं सर्वत्र संयोगात् फलसिद्धिर्भावनीया ।। इति नियुक्तिवृत्तार्थः ॥११६५ ॥
अत्र भाष्यम्बैंगसंजोगम्मि फलं सम्मकिरिओ-वलद्धिभावाओ । इट्ठपुरागमण पिव संजोए अन्ध-पंगूणं ॥ ११६६ ॥ वइरेगो जं विफलं न तत्थ सम्मकिरिओ-बलद्धीओ । दीसंति गमणविफले जहेगचक्के भुवि रहम्मि ॥११६७॥ अनेन गाथाव्येन प्रस्तुतार्थसिद्धयेऽन्वय-व्यतिरेकप्रयोगौ निर्दिष्टौ; तथाहि-द्विकं ज्ञान-क्रियालक्षणं तत्संयोग एव फलं मोक्ष
॥५२२॥
१ संयोगसिद्धी फलं बदन्ति न खल्वेकचक्रेण रथः प्रयाति । अन्धश्च पङ्गश्च बने समेत्य तो संप्रयुक्ती नगरं प्रविष्टौ ॥११६५॥ २ विकसंयोगे फलं सम्यक्कियो-पलब्धिभावात् । इष्टपुराऽऽगमनमिव संयोगेऽम्व-पक्वोः ॥ ११६६॥ व्यतिरेको यद् विफलं न तत्र सम्पक्कियो-पलब्धी । दृश्येते गमनविफले यथैकचके भुवि रथे ॥ ११६७ ॥ ३ क. ग. 'क्षफलं भ'
For Persone el