SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥५२१॥ मुच्यते ?, इत्याह- यतो यस्माद् यद् विफलं तदिह हतं विवक्षितम् , फलं च ज्ञानस्य क्रियैव, ततो विगतफलं ज्ञानं क्रियाहीनमेवोच्यते, नान्यत् । अत्र च प्रयोगः- हतं ज्ञानमेव केवलम् , सत्क्रियाहीनत्वात् , महानगरप्रदीपनकदाहे पलायनक्रियारहितपङ्गुलोचनज्ञानवदिति । एवमुक्ते सति क्रियात एव मोक्षमिच्छन् ज्ञानेऽनादृतस्तत्त्यागं मा कार्षीच्छिष्यः; इत्यतो भण्यते- हताऽज्ञानतः क्रिया। हता मोक्षलक्षणफलरहिताजानपरिगृहीता निहवादेः क्रिया, सम्यग्दृष्टेरपि ज्ञानोपयोगशून्यस्य क्रिया हतैव, तथाविधफलविकलत्वात् , सर्वतः संकटपदीप्तनगरे दह्यमानगृहायभिमुखपलायमानान्धगतिक्रियावदिति । तस्मादन्योन्यापेक्षे समुदिते एव ज्ञान-क्रिये मोक्षस्य साधनमेष्टव्ये, न प्रत्येकमिति ॥ ११६० ॥११६१ ॥ एतदेवाह अइसकडपुरदाहम्मि अंधपरिधावणाइकिरिय व्व । तेणं नोन्नावेक्खा साहणमिह नाण-किरियाओ॥११६२।। गताथैव ॥ ११६२॥ अत्र परः प्राह पेत्तेयमभावाओ निव्वाणं समुदियासु वि न जुत्तं । नाण-किरियासु वोत्तुं सिकतासमुदायतेल्लं व ॥११६३॥ आह-ननु भवत्यतिपादितन्यायेन प्रत्येकावस्थायां ज्ञान-क्रिययोर्निर्वाणसाधकसामर्थ्याभावात् समुदिताभ्यामपि ज्ञान-क्रियाभ्यां निर्वाणं वक्तुं न युक्तम् , सिकतासमुदाये तैलबत् । अत्र प्रयोगः- इह यद् यतः प्रत्येकावस्थायां नोत्पद्यते, तत् ततः समुदायेऽपि न भवति, यथा सिकताकणेषु प्रत्येकमभवत् तैलं तत्समुदायेऽपि न भवंति, न जायते च प्रत्येकं ज्ञान-क्रियाभ्यां मोक्षः, अतस्तत्समुदायादप्यसौ न युज्यत इति । तदेतदयुक्तम् , प्रत्यक्षविरुद्धत्वात् । तथाहि- मृत्-तन्तु-चक्र-चीवरादिभ्यः प्रत्येकमभवन्तोऽपि तत्समुदायाद् घटादिपदार्थसार्थाः प्रादुर्भवन्तो दृश्यन्ते, अतोऽदृष्टस्य मोक्षस्यापि ज्ञान-क्रियासमुदायात् प्रादुर्भूतिरविरुदैवेति ॥११६३।। किश्च, "वीसं न सव्वह च्चिय सिकतातेल्लं व साहणाभावो । देसोबगारिया जासा समवायम्मि संपुण्णा ॥११६॥ , अतिसंकटपुरदाऽग्धपरिधावनादिक्रियेव । तेनाऽम्योन्यापेक्षे साधनमिह ज्ञान-क्रिये ॥ १६॥ २ प्रत्येकमभावाद निर्माण समदितयोरपि न युक्तम् । ज्ञान-क्रिययोर्वक्तुं सिकतासमुदायतलमिव 110॥ ३ क. ग. 'नोपपद्य'। ४ विष्वगन सर्वथैव सिकतातैलमिव साधनाभावः । देशोपकारिता या सा समवाये संपूर्णा ॥१६॥ ॥५२॥
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy