________________
बृत्तिः।
FREPARAPRIORS
न हि ज्ञानं चरणरहितस्य विफलम्, इत्येतावतैव तिष्ठति, किन्तु पठन-गुणन-चिन्तनादिभिः क्लेशफलदमपि भवति, यथा विशेषानिष्फलवहनाचन्दनकाष्ठभार खरस्य विफलः, क्लेशमदश्च ॥ इति गाथाद्वयार्थः ॥ ११५७ ॥
तथाचाह नियुक्तिकारः॥५२॥
जहा खरो चंदणभारवाही भारस्स भागी न उ चंदणस्स ।
एवं खुनाणी चरणेण हीणो नाणस्स भागी न उ सुग्गईए ॥ ११५८ ॥ यथेह खरश्चन्दनकाष्ठभारमुद्वहस्तजनितश्रमादिकष्टभाजनमेव भवति, न तु चन्दनस्य तद्रसोपकल्पितविलेपनादिभाग भवतीत्यर्थः । एवं चरणेन हीनः श्रुतज्ञान्यपि तद्भारमुद्वहन् ज्ञानभागेव भवति- तत्पठन-परावर्तन-चिन्तनादिकृतकष्टभाजनमेव भवतीत्यर्थः, न तु सुदेवत्व-सुमानुषत्व-सिद्धिलक्षणायाः सुगतेरिति ॥ ११५८ ॥
अथ मा भूदित्थं विनेयस्यैकान्तेन ज्ञानेऽनादरः, क्रियायां चैतच्छ्न्यायामपि पक्षपातः, इत्यतो द्वयोरपि केवलयोरिष्टफलासाधकत्वमुपदर्शयन्नाह
हेयं नाणं कियाहीणं या अन्नाणओ किया । पासंतो पङ्गलो दड्ढो धावमाणो य अंधओ ॥११५९॥ अत्राक्षरार्थः सुगम एव, भावार्थ तु भाष्यकारो वक्ष्यति ॥ इति नियुक्तिवृत्त-श्लोकार्थः ॥ ११५९ ॥ अथ भाष्यकारोऽनन्तरोक्तश्लोकभावार्थमाहहैयमिह नाणं किरियाहीणं ति जओ हयं तिजं विफलं । लोयणविन्नाणं पिव पंगुस्स महानगरदाहे ॥११६०॥
कॉहिइ नाणच्चायं किरियाए चेव मोक्खमिच्छंतो। मा सीसो, तो भन्नइ हया य अन्नाणओ किरिया ॥११६१॥ हतमिह ज्ञानम् । किंविशिष्टम् ?, इत्याह-क्रियाहीनमिति यत्र चारित्रक्रिया नास्तीत्यर्थः। ननु कथं क्रियाहीनं ज्ञानं हत
१ यथा खरचन्दनभारवाही भारस्य भागी न तु चन्दनस्य । एवं खलु ज्ञानी चरणेन हीनो ज्ञानस्य भागी न तु सुगतेः ॥ ११५८ ॥ २ हतं ज्ञानं क्रियाहीनं हताऽज्ञानतः क्रिया । पश्यन् पङ्गुर्दग्धो धावमानवान्धकः ॥ ११५९ ॥ ३ हतमिह ज्ञानं क्रियाहीनमिति यतो हतमिति यद् विफलम् । लोचनविज्ञानमिव पङ्गोमहानगरदाहे ॥ १९६०॥ कार्षीज्ज्ञानस्यागं क्रिययैव मोक्षमिच्छन् । मा शिव्यस्ततो भण्यते हता चाजानतः क्रिया ॥ ११६१॥ ४ क. ग. 'हि य ना।
५२०॥
Jan Education Internationa
For Personal and Private Use Only
1ww.jaineltrary.org