SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥५२६ ॥ Jain Educationa Internation तम् १, इत्याह- 'न लभते शिवं मोक्षं श्रुतेऽपि वर्तमानोऽचरणो जीवः' इति । तस्य प्रतिज्ञातस्य हेतुरयं द्रष्टव्यः । कः १, इत्याह'खओवसमउत्ति' क्षायोपशमिकत्वात् श्रुतज्ञानस्य क्षायोपशमिकभाववर्तित्वात्, मोक्षस्य च क्षायिकज्ञान एव भावादिति भावः । ersarज्ञाने वर्तमान इति दृष्टान्तः ।। ११७५ ।। अत्र पर: माह - ननु यद्येवम्, तर्हि चरणसहितादपि श्रुताद् मोक्षो न भवत्येव, अस्मादेव हेतोः, अमुष्मादेव च दृष्टान्तादिति । कः किमाह ? - क्षायोपशमिके चरणसहितेऽपि ज्ञाने न भवत्येव मोक्ष इति सिद्धसाध्यतैव, किन्तु क्षायिकज्ञान-चारित्राभ्यामेव मोक्ष इति । एतदेवाह - सक्किरियम्मि वि नाणे मोक्खो खइयम्मि न उ खओवसमे । च खओवसमे न तम्मि तो चरणजुत्ते वि ॥ ११७६ ॥ गतार्थैव ।। ११७६ ॥ आह- यद्येवं क्षायोपशमिकभाववृत्तित्वेनैव श्रुताद् मोक्षो निषिद्ध इत्यतश्चरणसहितात् ततः प्राग् यद् मोक्षाभिधानं तच्छ्रन्यचित्तभाषितमेव । नैवम्, यतः साक्षादानन्तर्येणैव श्रुताद् मोक्षो निषिध्यते, पारम्पर्येण तु तस्मादप्यसौ भवत्येव यस्मात् श्रुतज्ञान-चारित्राभ्यां क्षायिकज्ञान-चारित्रे लभ्येते, ताभ्यां च मोक्षः संप्राप्यते । ततश्चारित्रयुक्तं श्रुतं मोक्षहेतुरिति यदुक्तं प्राक्, तदप्यविरुद्धमेवेति । एतदेवाह सुयं चरणेहिंतो खाइयनाण चरणाणि लब्भंति । तत्तो सिवं सुयं तो सचरणमिह मोक्खहेउ ति ॥ ११७७॥৷ व्याख्यातार्थैव ।। ११७७ ।। ननुः कुतः पुनरिदमवसीयते यत्- क्षायोपशमिके भावे श्रुतं वर्तते ? । उच्यते- आगमे तथैवाऽभिधानात् । कः पुनरेवमागमः ?, इत्याह- 'भावे खओसमिए इत्यादि' इत्येवमेकया पातनयेयं गाथा संबध्यते । अथ पातनान्तरं चिकीर्षुराह आह व निज्जिपणे च्चिय कम्मे नाणं ति किंव चरणेणं ? । न सुयं खयओ केवलनाण-चरित्ताइं खइयाइं ॥११७८॥ १ सक्रियेsपि ज्ञाने मोक्षः क्षायिके न तु क्षयोपशमे। सूत्रं च क्षयोपशमे न तस्मिंस्ततश्चरणयुक्तेऽपि ॥ ११७६ ॥ २ यत् श्रुत चरणाभ्यां क्षायिकज्ञान चारित्रे लभ्येते । ततः शिवं श्रुतं ततः सचरणमिह मोक्षहेतुरिति ॥ ११७७ ॥ ४ आह वा निर्जीर्ण एव कर्मणि ज्ञानमिति किंवा चरणेन ? न श्रुतं क्षयतः केवलज्ञान-चारिये क्षायिके ॥ ॥ ११७८ ॥ For Personal and Private Use Only ३ गाथा ११८० । बृहद्वृत्तिः । ॥५२६ ॥ www.jainelltrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy