SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ बृहदत्तिः। 'तेर्मु य ठियस्स मोक्खो तो सुयमिह सचरणं तदट्ठाए । तं कह मीसंखइयं च केवलं जं सुएऽभिहियं ॥११७९॥ विशेषा 'आह व त्ति' अथवा, पर आह- ननु च स्वावारके कर्मणि तावत् सर्वथा निर्जीर्णे परिक्षीणे सर्वमपि ज्ञानमुत्पद्यने, न तूदयमाप्त । ततश्च यथा चारित्रमन्तरेणापि कथमपि तज्ज्ञानावरणं कर्म क्षीणम् , तथा मोक्षलाभावारकमपि कथमप्येवमेव क्षयमुपया॥५२७|| स्यति, ततो ज्ञानादेव केवलाद् मोक्षो भविष्यति, किं चारित्रेण ? इति । अत्रोत्तरमाह- 'न सुर्य खयउ ति' सर्वमपि ज्ञानं वावरणे सर्वथा क्षीणे समुत्पद्यते, इत्येतदसिद्धम् , यस्मात् श्रुतज्ञानम् , उपलक्षणत्वाद् मत्य-ऽवधि-मनःपर्यायज्ञानानि च न वावरणक्षयात् , किन्तु तत्क्षयोपशमादेवैतानि जायन्ते । क्षायिकं त्वेकमेव केवलज्ञानम् , तथा, क्षीणमोहसंवन्धि चारित्रं च क्षायिकम् । तयोश्च स्थितस्याऽऽनन्तर्येण मोक्षो जायते । ततः सचरणं श्रुतमिह तदर्थाय क्षायिकज्ञान-चारित्रलाभाय भवति, इत्येवं परम्परया चारित्रसहितात श्रुताद् मोक्षमाप्तेः पूर्वोक्तं न विरुध्यते । परः प्राह- कथं पुनरिदं विज्ञायते- तत् श्रुतज्ञानं मिश्रं क्षायोपशमिकम् , केवलज्ञानं तु क्षायिES कमिति ? । आचार्यः प्राह- यद् यस्मात् श्रुत आगमेभिहितमेतत् ।। इति गाथादशकार्थः ।। ११७९ ॥ किं तदभिहितम् ?, इत्याह भावे खओवसमिए दुवालसंगं पि होइ सुयनाणं । केवलियनाणलंभो नण्णत्थ खए कसायाणं ॥११८॥ भवनं भावः, भवतीति वा भावः, तत्र भावे श्रुतज्ञानं भवति । कस्मिन् ?, इत्याह-क्षयो-पशमाभ्यां निवृत्तः, क्षयो-पशमावेव वा क्षायोपशमिकस्तत्रैव भवति, न त्वौदयिकादिके । कियत् ?, इत्याह-द्वादशाऽङ्गानि यत्र तद् द्वादशाङ्गम् , अपिशब्दाद् बाह्यमपि सर्वम् , तथा, मत्य-ऽवधि-मनःपर्यायज्ञानत्रयमपि,तथा,क्षायिको-पशमिकभाववृत्तिवर्जसामायिकचतुष्टयमपि । केवलस्य भावः कैवल्यं घातिकर्मवियोग इत्यर्थः, तस्मिन् कैवल्ये सति ज्ञानं कैवल्यज्ञानं केवलज्ञानमित्यर्थः, तल्लाभः पुनः कषायाणां क्रोधादीनां सर्वथा क्षये सत्येव भवति, नान्यत्र नान्येन प्रकारेण । इह च यद्यपि घातिकर्मसु चतुर्वपि क्षीणेषु केवलज्ञानं भवति, न तु केवलेषु कषायेषु ; तथापि प्राधान्यख्यापनार्थं तेषामेव ग्रहणम् , तत्क्षये शेषकर्मक्षयस्याऽवश्यंभावित्वात् ।। इति नियुक्तिगाथार्थः ॥ ११८०॥ सहस्सा ॥५२७॥ १ तयोच स्थितस्य मोक्षस्ततः श्रुतमिह सचरणं तदर्थाय । तत् कथं मित्रं क्षायिकं च केवलं यत् श्रुतिऽभिहितम् ॥ १९॥ २ भावे क्षायोपशमिके द्वादशाङ्गमपि भवति श्रुतज्ञानम् । कैवल्यज्ञानलाभो नान्यत्र क्षये कषायाणाम् ॥ १८॥
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy