Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा. ॥५२४॥
आह- ननु जीवापवरकशोधने किमिति ज्ञानादीनां त्रितयमप्यपेक्ष्यते, यावताऽन्यतरेणैकेनापि तच्छुद्धिर्भविष्यति ?, इत्याशङ्कयैकैकस्मात् कार्यसिद्धिनिराकरणेन त्रितयसमुदायादेव तसिद्धिं समर्थयन्नाह भाष्यकार:
विष्यति , इत्या- बृहदत्तिः। असहायमसोहिकरं नाणमिह पगासमेत्तभावाओ । सोहेइ घरकयारं जह सुपगासो वि न पईवो ॥११७०॥ नय सव्वविसोहिकरी किरिया वि जमपगासधम्मा सा । जह न तमोगहमलं नरकिरिया सव्वहा हरइ॥११७१॥ दीवाइपयासं पुण सक्किरियाए विसोहियकयारं । संवरियकयारागमदारं सुद्धं घरं होइ ॥ ११७२ ॥
तह नाणदीवविमलं तवकिरियासुद्धकम्मयकयारं । संजमसंवरियमुहं जीवघरं होइ सुविसुद्धं ॥११७३ ॥
इह न ज्ञानमसहायमेकाक्येव शोधयितुमलम् , प्रकाशमात्रखभावत्वात् , यदक्रियं प्रकाशमात्रस्वभावं न तद् विशुद्धिकरं दृष्टम् , यथा न गृहरजो-मलविशुद्धिकृद् दीपः, यच्च विशुद्धिकरं न तत् प्रकाशमात्रखभावम् , यथेष्टा-निष्टप्राप्ति-परिहारपरिस्पन्दवान् नयनादिप्रकाशधर्मा देवदत्तः, प्रकाशमात्रस्वभावं च ज्ञानम् , तस्मादसहायत्वाद् न विशुद्धिकरं तदिति । क्रियाप्येकाकिनी न सर्वशुद्धिकरी, अप्रकाशधर्मकत्वात् , यद् यदप्रकाशधर्मकं न तत् सर्वविशुद्धिकरम् , यथा न समस्तगृहरजो-मलविशुद्धयेऽयक्रिया, चक्षुष्मतो वा क्रिया यथा तमोयुक्तं गृहं तमोगृहं तस्य न सर्वविशुद्धयेऽलम् , या च सर्वविशुद्धयेऽलं न साप्रकाशस्वभावा, यथा चक्षुष्मतो नरस्य वितमस्कगृहे समस्तरजो-मलापनयनक्रिया, अप्रकाशस्वभावा चैकाकिनी क्रिया, अतो न सर्वविशुद्धिकरीति ।
___त्रितयादपि समुदितात् तर्हि शुद्धिर्न भविष्यतीति चेत् । नैवम् , इत्याह- दीपादिप्रकाशं पुनर्यथा गृहं सक्रियया विशोधितकचवरं संतृतकचवरागमहेतुभूतद्वारं सर्वथा शुदं भवति तथा तेनैव प्रकारेण ज्ञानदीपविमलितं तपःक्रियया शोधितकर्मकचवरं संयमेन संतृतसमस्ताश्रवद्वारं जीवगृहं सुविशुद्धं सिद्धिसुखसंदोहनिवासयोग्यं भवतीत्यर्थ इति ॥ ११७० ॥ ११७१ ॥११७२ ॥ ११७३ ॥
आह- ननु पूर्व ज्ञान-क्रियालक्षणाद् द्वयाद् मोक्षः, इदानीं तु ज्ञान-तपः-संयमरूपात् त्रितयादसावुच्यते, इति कथं न पूर्वा
EsarokarosBTETara
॥५२४॥
, असहायमशुद्धिकरं ज्ञानमिह प्रकाशमानभावात् । शोधयति गृहकचवरं यथा सुप्रकाशोऽपि न प्रदीपः ॥ १७ ॥ न च सबविशुद्धिकरी क्रियाऽपि यदप्रकाशधर्मा सा । यथा न तमांगेहमलं नरक्रिया सर्वथा हरति ॥ ११01॥ दीपादिप्रकाशं पुनः सक्रियया विशोधितकचवरम् । संवृतकपवरागमद्वारं सवं गृहं भवति ॥ 110॥ तथा ज्ञान-दीपविमलं तपःक्रियाशुदकर्मकचवरम् । संयमसंवृतमुखं जीवगृदं भवति सुविशुद्धम् ॥ 1108॥
Educa
For
Use Only
Loading... Page Navigation 1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202