Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 22
________________ बृहद्वत्तिः । विशेषा. ॥४२०॥ सर्वनिषेधवचने नौशब्देन गृह्यमाणे दोषः प्रसज्यते । कः ?, इत्याह- 'सव्वसुयमित्यादि' नोआगमतो भावश्रुतमिति कोऽर्थः ?- अनागमः सर्वमपि यद् भावश्रुतमिति- सर्वनिषेधवाचकत्वे नोशब्दस्य सर्वस्यापि भावश्रुतस्याऽऽगमत्वनिषेधः स्यादिति भावः। अयुक्तं चैतत् , श्रुतस्यागमत्वेने सुप्रतीतत्वात् । अथवा, सर्वनिषेधवाचके नोशब्दे नोआगमतो भावभुतमित्ययमर्थः स्यात् । कः ?, इत्यत्रोच्यते- अनागमतोऽनागमत्वात् श्रुतवर्ज मत्यादिचतुष्टयात्मकं यदनागमरूपं ज्ञानं तत् श्रुतं भावश्रुतं भवेदिति- अश्रुतरूपस्यापि मत्यादिज्ञानचतुष्टयस्य श्रुतप्रसङ्गः स्यादिति भावः ॥ ८८५॥ देशनिषेधवचनेऽप्यत्र नोशब्द दूषणमाह देसेनिसेहे सयलं नोआगमओ सुयं न पावेज्जा । भिन्नं पिव तं देसो चरणाईणं पसज्जेज्जा ॥ ८८६ ॥ देशनिषेधवचने नोशब्दे सकलमाप्याचारादि श्रुतं नोआगमतो भावश्रुतं न प्राप्नुयात्- न स्यात् , किन्तु तदेकदेश एव नोआगमतो भावश्रुतं स्यादित्यर्थः । सर्वश्रुतस्य चैतदिष्यते, समस्तस्यापि द्वादशाङ्गगणिपिटकस्य ज्ञान-दर्शन-चारित्रपर्यायपिण्डात्मकत्वाद् नोआगमत्वेन सिद्धान्ते रूढत्वात् । एतच्च मिश्रवचन एव नोशब्द घटते, नान्यथेति भावः । अत्रैकदेशनिषेधपक्षे दूषणान्तरमाह'भिन्नं पि वेत्यादि' 'वा' इत्यथवा, भिन्नमपि पृथग्भूतमपि सत् तद् भावश्रुतं चरणादीनामेकदेशः प्रसज्येत; अभिनदेशं चेष्यते तच्चरणादिभिः सह, धात्वञ्जनकपिशवर्णकवत् । अन्यथा संकरैकत्वादिदोषप्रसङ्गादिति ।। ८८६ ॥ किश्च, देशनिषेधको नोशब्द एकदेशवाचकः, तत्र चापरोऽपि दोषः । कः ?, इत्याह होज व नोआगमओ सुओवउत्तो वि ज स देसम्मि । उवजुजइ न उ सव्वे तेणायं मीसभावम्मिा।८८७॥ यः श्रुतोपयुक्तः पूर्वमागमतो भावश्रुतमुक्तः, सोऽपि नोशब्दस्य देशवचनत्वे नोआगमतो भावश्रुतं भवेत् । कुतः ?, इत्याहयद् यस्मात् स श्रुतैकदेश एवोपयुज्यते, न तु सर्वस्मिन्नपि श्रुते, सर्वस्यापि श्रुतस्याऽनन्ताभिलाप्यार्थविषयत्वात् , एतदुपयोगस्य चैकदाऽसंभवात् । ततश्चैकदेशवचनत्वे नोशब्दस्याऽयं नोआगमः । तस्माद् येनैवं सति आगम-नोआगमभावश्रुतयोरविशेषः प्रामोति, तेनाऽयं नोशब्दो मिश्रभावे ग्राह्य इति ॥ ८८७॥ १ क.ख. 'न प्र' । २ देशनिषधे सकलं नोआगमतः श्रुतं न प्राप्नुयात् । भिन्नमपि वा तद् देशश्वरणादीनां प्रसज्येत ॥ ८८६ ॥ । भवेदू वा नोआगमतः श्रुतोपयुक्तोऽपि यत् स देशे । उपयुज्यते न तु सर्वस्मिन् तेनाऽयं मिश्रभावे ॥ ८८७ ॥ ॥४२०॥ Jan Education interna For Personal and Private Use Only PERTwww.jaineltrary.ary

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202